________________
rasiddakakkadkiase
__ पूज्यपादागमोद्धारकाऽऽचार्याले खित-प्रस्तावना
विषम-पदार्थ-सूचिका आनन्द-लहरी-टिप्पणी
( श्री कर्मप्रकृत्युपोद्घातः)
१. अत्र सुसूक्ष्मबुद्धिगम्य अन्वय एवमवबोध्यः “ विदुषां वर्गः विदाङ्करोति (यत्) विज्ञानविषये
तावद् जगति वर्तनावर्तनमवतीर्णा विश्वोऽपि प्राणभृद्वारः अहमहमिकापुरस्सरं प्रवृत्ति आदिय
माणः विद्यते " इति । २. वि-विशिष्टं ज्ञानं विज्ञानं तस्य विषये-विषयभूते इति । ३. विदुषां-सूक्ष्मधीमतां वर्ग-समूह इति । ५. वर्तना-आचरणा, तस्याः वर्तनी पद्धतिः, ताम् इति । ५. समस्तोऽपोत्यर्थः । ६. प्राणभृताः-जीवानां वार:समूहः इति । ७. " साध्यता प्रतिप्राणि" इत्यस्यात्राऽयमों यत् सर्वेषु प्राणिषु साध्यत्वअनुमानादिभिः जीवा
स्तित्वप्रतिपादनरुपम् । ८. प्रसिद्धाः प्रमाणादिभिः अग्रे वक्ष्यमाणैककर्तृत्वादिहेतुभिश्च पूर्व ये ते, तेषु । ९. स्वस्वविषयका ये सुखि-दुःखित्वरुपा अनेके च ते विषयाः, तद्विषयकं यत् एकस्य कर्तृत्वम्,
भूतेभ्यो विलक्षणं यत् विज्ञानं, तद्वत्त्वम् , दृश्यमानानि यानि भूतानि, तेषां संहतिः-एकत्रीभवनं
तत्कारित्वं तदादिभिः । १०. एतत्पदस्य प्राक्तनेन " साध्यता" पदेन सहाऽन्वयो विज्ञेयः । ११. जीवस्य अस्तित्वस्य अभ्युपगमेन अवाप्ता सार्था-अर्थानुगुणा आस्तिक्यसंज्ञा यैः तान् ।