________________
१२६
[ श्रीपञ्चाशकप्रस्ता०टि. ५८. आदर्शस्य=मुद्रणयोग्यस्यलेखस्य करणम्-विधानं, मुद्रणं-मुद्रायन्त्रे दानं, अन्वीक्षणं सम्यक्
ध्यानपूर्व शुद्धि-स्वच्छतादिनिभालनं, शोधनं-मुद्रणपत्रादीनामित्येवमादिभिरिति । ५९. पूर्व दत्तवन्त इति यावत् । ६०. प्रकरणस्य प्रस्तुतग्रन्थस्य मुद्रितकरण प्रकाशकरणं तद्रूपे कार्ये । ६१. प्रभाकरः सूर्यः, तस्य प्रभा कान्तिसमूहः, तस्य साधनस्य सम्पादनस्य वर्णनम् इति । ६२. न आप्त-अनाप्त, एतादृशी या भावना, तस्याः नेदीयस्ता समीपता तामिति । ६३. "दु" गतौ इति भौवादिकधातोः सप्तमी (विध्यर्थ) रूपमिदम् । ६४. कल्पनायां कोविदता=निपुणता, तामिति । ६५. ईक्षणीयम्-विचारणीयमिति । ६६. वृद्धानां पुरातनानामाचार्यविशेषाणां व्याख्याया अनुसारिणि अनुयोगे इति । ६७. उपन्यस्तमिति । ६८. दृश्यते इत्यर्थः । ६९. प्रस्ताव्यते इत्यर्थः । ७०. त्रुटिरहितमित्यर्थः । ७१. प्रशस्तेत्यर्थः । ७२. भावाचार्य पदेनाऽत्र पूज्याभयदेवसूरीणां प्रकृष्टसाधनानुसारित्वं ध्वन्यते । ७३. अत्र 'तत् ' पदेन खरतर चर्यापरामर्शः । ७४. गम्भीरं स्थूलधियाऽनवगम्यं च तत् ऐदम्पर्य=रहस्यं तेन युतः इति । ७५. लक्षग-स्वरूपाख्यानं, तेन सहित इति । ७६. श्रावकधर्मनिरुपकेषु अन्येषु ग्रन्थेष्वित्यर्थः । ७७. संस्कृतभाषानिबद्धोद्धरणेनेत्यर्थः । ७८. इदानीमुपलभ्यमानप्राकृतभाषानिबद्ध " श्रावकज्ञप्ति" ग्रंथतः भिन्नेत्यर्थः ।