________________
श्रीपञ्चाशक प्रस्ता०० ]
१०. शुभं - परार्थ करणरूपं विद्यते येषां ते इति ।
११. कुशस्याग्रतुल्या मतिः येषां तद्भावमिति ।
१२. दुर्गमश्चासौ दुर्गः - वप्रः ( किल्लो ) तस्य पद्या - - सुगमपदपद्धतिस्तद्वदिति ।
१३. श्रीमान् अविरुद्ध श्वासौ हितकृत् य उपदेशस्तस्य देशने-दाने दक्षः, एतादृशो यो जिनाम
तस्मिन् इति ।
१४.
व्यासादयः ये अन्यतीर्थ्यधर्माचार्याः, तैः प्रणीता या प्रणालिका शास्त्रपद्धतिरुपा, तथा आपूरितं हृदयं येषां तैरिति ।
१५. अन्तेवासिता - शिष्यत्वं, तया परिकरित इति ।
१६. पवित्राश्च ते अचाराश्च तेषामाचरणेन - आसेवनया प्राप्तम् आर्यात्वम् = श्रेष्ठत्वम् यया, तादृश्या आर्यायाः =साळ्याः मुखकजात् - वदनकमलादिति ।
१७. इयं हि गाथा सम्पूर्णैवं विज्ञेया :
×××
" चक्किदुगं, हरिपणगं, चक्कीण केसवो चक्की । केसव चक्की केसव, दुचक्की केसव चक्की य ॥"
१८. आर्यानां - साध्वीनां आलय: - उपाश्रयः, तस्याङ्गणं तस्मिन् इति ।
१९. सोपयोगमवबोधार्थं प्रयतितेऽपीति ।
२०. विवेकरूपं यत् विलोचनं - विशिष्ट नेत्रं, तस्य लोचने बद्धं लक्ष्यं येनेति ।
२१. आङ्पूर्वक' यत्' धातोः परोक्षारूपमिदम् ।
एतेन च प्रयोगेणैवमत्र ध्वन्यते यत् यथा हि पतनं न स्वेच्छापूर्वकम्, तथाऽत्रहार्दिक्या अपि प्रतिज्ञाया महत्त्वमुररीकुर्वाणा पूज्यपादाः आन्तरिक भावुकत्वविवशीभूताः मानहानिमपि विगणय्यैव प्रेर्यमाणा इव कयाऽप्यान्तरशक्तिना साध्वीनिकटं जग्मुरिति सूभ्यते ।
२२. 'वि' पूर्वम् ' नम्' धातोरयतन्यामात्मनेपदरूपमिदम् । आत्मनेपदप्रयोगेणैतस्य नमस्कारस्य स्वारसिकत्वं सूच्यते ।