________________
भीपंचाशकप्रन्थप्रस्तावना ]
[१९ - मूलतो वृत्ततो वाऽप्यनुन्मुद्रितस्य मुद्रणे ५४साधीयसी ५५साधनतां साधयामासुः ५ 'संसदध्यापका ज्येष्ठारामाऽभिधानाः ५७शास्त्रविद्वर्या ५८आदर्शकरण- मुद्रणान्वीक्षणशोधनादिभिर्बहुतरैः प्रकारैः।
अनेकाः साधवस्तु ५५ दत्तपूर्विण एव साहाय्यमस्या एवं विधेषु विविधं प्रवितरन्ति, विश्राणितं च प्रकृतेऽपि प्रकरणमुद्रितकरणकार्ये साहाय्यमसाधारणं तै:, किन्तु "प्रभाकरप्रभावितानसाधनवर्णनमिव प्रसिद्धत्वान्नाऽतिशयावहमिदमेषामिति न तत्राऽऽयासोऽणीयानपि, न च ते तदनाप्तितोऽनाप्तभावनानेदीयस्तां दवेयु: कणशोऽपि कल्पितां ।
प्रकरणे च प्रारब्धे प्रेक्ष्यमाणकोनविंशतिमकरणबातमपूर्णमिति कश्चित् , तन्न तत्र तस्य विहाय ६४ कल्पनाकोविदतां विचक्षणाना ५मीक्षणीयमाविर्भवति किश्चित् , यतो
वृद्धव्याख्यानुसायनुयोगेऽन्यत्र च न किमपि तादृश "माततं वाक्यादि प्रमाणभूत मन्वीक्ष्यत आख्यायते वा। पश्चाशकाऽऽख्याख्यातिस्तु प्रतिप्रकरणं प्रक्लप्तानां पञ्चाशतो गाथाना मविगानेन विज्ञाना 'दविगीतैव, अन्यथाऽष्टकानामष्टानामेव वर्णनीयत्वापत्तिः न तु द्वात्रिंशतो दृश्यमानाया यथार्थता, कृतमतिप्रसक्तेन ।
विघृतं चेदं विख्यातकीर्तिभिः श्रीमदभयदेव भावाचार्यपादैः । प्रभूणां सत्ता तु वैक्रमीय एकादशे शतक इति ख्याततरं । न च तेषां गन्धोऽपि खरतरत्वेऽत्राऽन्येष्वपि (च) तद्ग्रन्थेषु वा, न चाऽत्र तत्प्रस्ताव इत्युपरमामीतः ।
प्रकरणेषु चाऽत्र प्रथमे श्रावकधर्माऽधिकाराऽऽख्ये श्रावकप्रज्ञप्त्यादावुमास्वातिपादैः प्रणीतोऽपि गम्भीरेदम्पर्ययुतः ७ सलक्षणश्च लक्षितो धर्मोऽगारिणः ।
यद्यपि वृत्तिकृत्पादप्रदर्शितं “सम्यग्दर्शनसंपन्नः षड्विधावश्यकनिरतश्च श्रावकः भवतीति " श्रीउमास्वातीयं वचनवरं नाऽऽयात्युपलब्धिपथं तत्वार्थाऽऽदिषु श्रावकधर्माधिकारेऽन्य त्राऽपि च, परमनुमीयत एतद्-यदुताऽऽसीत्खलु संस्कृतव्याहृत्योदाहृता तैः पूज्यैरन्यापि दृश्यमानप्राकृतभिन्ना श्रावकप्रज्ञप्तिरिति ।
द्वितीये जिनदीक्षाऽभिधे सम्यग्धर्मे चित्तस्थापनैव दीक्षा विवृता, धर्माभिलाषुकैः पुनः पुनः प्रेक्षणीयमाचरणीयं चैतदुक्तं, एतदभाव एव धर्मावनत्यादिहेतुरैदंयुगीनानामित्यस्मन्मतिः।