________________
१२० ]
[ श्रीपंचाशकग्रन्थप्रस्तावना अत्र च यद्यपि न विद्यते गाथाषट्कं पूरकं पञ्चाशतो गाथानां, चतुश्चत्वारिंशत एवोपलम्भाव, परं 'व्यवहारेण किश्चिदनस्यापि सम्पूर्णताख्यायिना यद्वाऽन्येषां तथात्वा मध्यगस्यातथाभूतस्यापि तथात्वमिति न पश्चाशकताक्षतिः ।
प्रत्याख्यान च द्रव्य-भाववन्दना-पूजानन्तरमाख्यायमानैराकाराऽखण्डत्वमनुमोदयद्भिदर्शितं बहुमान्य पाठाखण्डत्वं ।।
विधाने च जिनभवनस्य व्याख्याते सप्तमे यदुक्तं " पेच्छिस्सं इत्थमहं, वंदणगणिमित्तमागए साहू" इति दर्शयद्भिश्चैत्यवासिताऽनगाराणां समूलकापं कषिता८४ऽन्यत्रापि प्रतिपादितं चैवमेव पूज्यैः " ८५देयं तु न यतिभ्यः" इत्यनघवाक्येन ।
यत्तु “तिष्ठन्ति ते यथा तथा कार्य" इति प्रोचिरे भगवन्तस्तत्तु जिनाऽऽगमव्याख्यानायाऽवस्थानाऽऽज्ञामूलकं, अत एव " चेइहरागम-सवणं" इति। श्रावकाऽहोरात्रविधौ विहितं विधिरसिकं।
यात्रापश्चाशके स्पष्टमाख्यातं श्रीमहावीप्रभोः कल्याणकपञ्चकं, अवधार्य चैतत्सूत्रकृच्छ्रीमद्धरिभद्रसूरीणांवृत्तिकृतां च श्रीमद्भयदेवसूरीणां भीरुता चेदाशातनायास्त्याज्य: षट्कल्याणककदाग्रह स्तद्र सिकैः, तीर्थकराऽऽशातनाप्युत्सूत्रप्ररूपणोत्थै "वमेवापयास्यतीति ध्येयम् ।
कल्पस्वरूपाऽऽख्याने स्पष्टमाख्यातमागमैदम्पर्यविद्भिः पूज्यैः "तित्थगरऽसंतचेला"। व्याख्यातं च व्याख्याचणै:-" तीर्थकरा जिनाः। असच्चेलाः सन्तोऽचेला भवन्ति, शक्रोपनीतदेवघ्याऽपगमानन्तरमिति"।
अवलोक्य चैतच्छ्रीमत्तीर्थकरवाक्योत्तीर्णवादभीरवो नैतादृग्वाक्यानुसारिकिरणावलीवाक्यविलोपका भविष्यन्तीति । ___ आख्यातं च ख्यातकीर्तिभिरुपस्थापनाविधिं येऽनुपस्थापनारसिका ये 'चाऽपरीक्ष्योपस्थापकाः सर्वे ते सम्यग् निभालयित्वा २ऽऽज्ञास्वरूप सम्यक् प्रवर्तन्तां, यथा स्याद्यथेप्सितपदलाभः ।
विधिवेदिनो विद्वांसो विलोक्य वाक्यं वीतरागीयं “अइयारो होउ वा मा वे" त्याद्यात्मकं विकल्पकोविदत्वमात्मनोऽपाकृत्य "स्याच्चेदतिचारः प्रतिक्रमणं, किंम