________________
१०२ j
[ श्री कर्मग्रन्थोपोद्घातः कन्दकल्पाः १० तत्रभवदुद्देश-प्रव्राजनाद्याचार्याः? के वा' 'भगवच्चरणचश्चरीकमकरन्दमत्तमनोमधुपा ? १० इत्यादि ज्ञेयमत्र विद्वद्वन्दारकाणां १० बहीयः,परं १० "तज्ज्ञेयं यथायथंश्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारकोशद्वारा मुद्रिताया वन्दादरुवृत्त: प्रस्तावनातः ।
किञ्चिच्चात्रैव प्रकरणे प्रणीता या १०५श्रीमद्धृदयपद्मप्रभवप्रस्तावनापीयूषाऽशनतरङ्गिणी, तदवलोकनतोऽपि स्फुटं सिद्धिमेष्यति । विस्तरार्थना तु विलोकनीया गुर्वावली पट्टापली च १० तत्प्रबन्धबन्धुरा ।
षष्ठं तु कर्मस्वरूपनिरूपणप्रवणं वाङ्मयं सप्तत्याऽऽख्यं, संभाव्यते १० दृष्टिवादवदनाऽ. तिक्रान्तवेदवादकब्रह्मसहस्राऽनन्तार्थज्ञापनदृढदृष्टिवादपानपीयूषपीनप्रवचनप्रधानतरः पुरुषविशेपोऽस्य संदृब्धा, यतो दृश्यतेऽस्याऽऽदिगाथायो “णीसंदं दिहिषायस्स" इत्यमृतायमानं वाक्यं । प्रान्तेऽपि "रुहरबहुभंगदिठिवायाओ" इति च । दृष्टिवादश्च १०८श्रीमदकलंकाऽस्यपद्मइदनिर्गत "उप्पन्ने इ वा विगमे इ वा धुवे इ वा" इतित्रिपथगायमानाऽशेषविश्वव्याप्तवस्तु विसराऽनुसारिपदत्रयीपानोद्भूत-भूतोद्भवद्भाविभावाऽवभासनप्रभुभारतीभरगणभृत्प्रणीतद्वादशाऽङ्गीगणिपिटकात्यभागः १० षण्णवतशताऽष्टसहस्रमानाविचलमान-महाविदेहमातङ्गमानमित-मषीमालालेख्यवाच्यो, व्युच्छिन्नश्चायं ११० श्रीमदपश्चिमपारगतपरमगत्यधिगतिसमतिक्रान्तशतकद्वय इति ।
नूनं निर्मातारोऽस्य निर्ग्रन्थाऽग्रेसरा: प्राचीनतमा: श्रीमन्तश्चन्द्रमहत्तराः। यद्यपि न भिन्ना बहुश आसीरञ्छाखास्तदा, तथाऽपि सामान्यतोऽभूवस्ताः श्रीमति कल्पे ११ समस्तसमग्रवेदीशानवृत्तशासनापरगुरुपरम्परापद्मावबोधपद्मवान्धवाखिलखिलस्खलनावाप्यासाधारणाननशर्माश्रयनिःश्रेयससाधनसमर्थसामाचारी विचारविस्तृतविभवानल्पप्रतिष्ठाकल्पे श्रीमद्भ्यो यशोभद्रेभ्य एव व्याख्याता वृत्तविस्ताराः शाखाः। प्राचीनाश्च तत एते ११२सुराऽसुरविसरपरिसर्यावसरसंसृष्टशिरःशेखरखरतरमयूखमालासङ्गाः तत्रभवन्तः ।
एतावताऽवश्यं वावसिष्यति मानसे मनस्विनामेतत् यदुत प्रकरणमेतत्प्राचीनतमं श्रद्धेयतमं चेति।
षष्ठत्वं तु श्रीमद्देवेन्द्रपादोपज्ञपूर्वप्रस्तावितप्रकरणपश्चकप्रसिद्धिसिद्धं, अत एव च नाऽस्य चूर्णिकाराः पुरातना अपि अपश्चितवन्तः षष्ठतां । सिद्धिश्चाऽस्मादपि प्रकरणस्यैतस्य चिरंतनतायाभूर्णिकारपूज्याऽभिधानाऽनुपलंभात्, विवरितारस्तु प्रस्तुतस्य ११३प्रवचनवृत्तिविधानाऽवातावतारकीर्तिनटीनाटित नाकनाथा: श्रीमन्तो मलयगिरिपादाः ।