________________
१४
[ श्रीयोगदृष्टि० उपो० टिप्पणी २१. तथाविधानां पूर्वधरकालसमीपवर्त्तित्वानुमापकानां वचनव्रजानामनवलोकनात् इति । २२. कूटा असत्या या कल्पना, तस्याः यत् कल्पनं, तत्र कोविदैः इति । २३. लोकरू ढेः बहुजनप्रसिद्धकिंवदन्तीरूपायाः, तथा तेषां प्रभावेन लब्धः प्रभवः=उत्पत्तिः यस्यैता
दृशग्रन्थविशेषरूपाणां सिद्धान्तसारादीनां विलोकनतः, इति हेतुद्वयमत्र प्रयोजनरूपेणोपन्यस्तं
पूज्यागमोद्धारकाचार्यमतल्लज-ध्यानस्थस्वर्गतागमावतारसूरिपुरंदरैरत्र । २४. पञ्चेन्द्रियाणां इन्द्रियपञ्चकधारिणां प्राणिनां यः प्रचयः समूहः चतुश्चत्वारिंशदधिकचतुर्दशशत
सङ्खयबौद्धविद्वद्गणरूपः, तस्य परासुकरणं मारणं, तस्याः या कल्पना, तस्याः कर्त्तने दूरीकरणे नदीष्णुः समर्था इति व्युत्पत्तिः ।
एतद्धि पदं प्रायश्चित्तस्य प्रतिपत्तिः इत्यस्य विशेषणम् । २५. इच्छा-शास्त्र-सामर्थ्यानां यः पर्यन्तः तस्य अनुधावने धौ रेय ( वृषभ) तुल्या या इति विग्रहः ।
इच्छायोग-शास्त्रयोग-सामर्थ्ययोगेतियोगभेदत्रयसूचनमत्र विहितं सुसूक्ष्मागमतत्त्वपटिष्ठव्या
ख्याप्रवणैरागमोद्धारकबहुश्रुतैः । २६. विपश्चितां-तत्त्वबोधसमर्थानां यत् विज्ञानं विशिष्ट-तत्त्वनिर्णयक्षमं ज्ञानं, तेन वेद्यम् इति । २७. प्राणिनां यत् वैचित्र्यं मोहावरणक्षयोपशमहेतुकं, तन्निबंधनं यत् देशनायाः वैचित्र्यमिति व्युत्प
त्तिरर्थानुसारिणी ज्ञेयाऽत्र । २८. स्पष्टैवेति भावः । २९. इटालीसंज्ञदेशनिवासिना इति । ३० तभाषाया-संस्कृतभाषायाः प्रचुराणि च तानि पुस्तकानि, तेषां प्राप्तिरिति विग्रहः । ३१. गौर्जरीयं च-गूर्जरदेशसंनिविष्टं यत् सुरताख्यं पत्तनं, तत्रत्यश्चासौ अभिजनः=कुलीनः यः श्रेष्ठिवर्य
देवचन्द्रलालभ्राता, तेन नियुक्तं पुस्तकानामुद्धारमात्रे उपयोगि यत् लक्षद्रम्माणां व्यवस्थापत्रं, तत्र नियमित व्यवस्थापितं यत् कुसीदस्य-व्याजस्य व्ययः, तस्य व्यवस्थायाः कारकैः श्रेष्ठि
नगीनभ्रातृभिरिति तात्पर्यसङ्गामिकया शैल्या अन्वय-विग्रही चावबोध्यौ । ३२. सज्जनानां तत्त्वरूचिमतां तत्त्वपथगामुकानां वा यत् मनः, तदनुसारिणी या सरलसरणिः-सरल
पन्थाः जिनाज्ञानुसारं जीवनशक्तिव्यवस्थात्मकः, तस्या अनुगन्ता-अनुगमनशील इति व्युत्पत्तिः।