________________
श्रीयोगदृष्टि० उपो० टिप्पणी ]
[ ९३ ७. स्पष्टतमश्चासौ यथार्थश्च इतिहासग्रन्थानां-पूर्ववृत्तघटनासंकलनरूपग्रन्थानां अभ्यासो येषामिति ___व्युत्पत्तिरत्र ज्ञेया। ८. कृता-पदार्थनिर्णये समर्था या धीः, तस्या यो विषयः अवगाहक्षेत्रं, स विषयो यस्याः तामिति
विग्रहः । ९. भव्यश्चासौ भव्यानां तत्त्वज्ञानयोग्यानां योऽवबोधः, तत्र निबंधनरूपा या बन्धुरता-मनोहरता
तस्या उद्बोधनेनेति । १०. तत्त्वभूता=यथार्थज्ञानयोग्या ये अर्थाः जीवादिपदार्थाः, तेषां साधकं विषयस्वरूपनिष्टङ्कनेन यत्
तत्त्वार्थाख्यं सूत्रं प्रकरणं वा, तस्या वृत्तिमकुर्वन् ये ते सिद्धसेनाख्यगणयः तेषामिति
व्युत्पत्तिरत्र ज्ञेया। ११. विचारे चणाः=निपुणाः तैः चर्वणीय ग्रहणयोग्यमिति भावानुसारी विग्रहः । १२. कुविकल्पानां विश्वा=समस्ता या च्छाया तस्याः, छेदने छेकाः=निपुणाः समर्था वा ये शत
सहस्र-परिमिता ये ग्रन्थाः, तेषां या ग्रथना=रचना, तस्या अबोधरूपं यत् तमः, तस्याः ततिः= परम्परा, तयाऽवष्टब्धं व्याप्तं यदन्तःकरणं, तस्याः विकासकरणे कोविदतमत्वाद् इति विग्रहः
तात्पर्य-गामकशैल्या सङ्गमनीयः । १३. श्रीमदिवाकराख्यं च गणिसंज्ञं च यत् पदं-गुणपूजास्थानं, ते उपाधी प्रशस्यविशेषणरूपे येषां
तेषामिति विग्रहः। १४. ध्वस्तं ज्ञानरूपं धाम तेजः यस्मात् इति । १५. भवस्य संसारस्य यः प्रपञ्चः, तस्य प्रपञ्चनं=विस्तारेण कथनं, तत्र पटुः समर्था या उपमितिभव
प्रपञ्चा, तामिति । १६. पूर्वोक्ता ये ग्रन्थाः तेषां संमता या शरद्-वर्ष तत्र वृत्तं जातं वार्तशरीरं वार्ताकथारूपं यत्
शरीरं, तत्र वृत्तिः येषामिति विग्रहः । १७. कतिपये च ते प्रवचनानामर्थरूपा ये ताराः तेजस्विनो ये तारकविशेषाः तान् इति । १८. समीपकालवर्तित्वादिति भावः । १९. प्रभोः पूज्यस्य प्रभविष्णु-विशिष्टशक्तरुत्पत्तिस्थानभूतं यद् वदनं मुखं तद्रूपान् मलयात्=
सुगंधिचन्दनवृक्षमूलभूमिरूपपर्वतविशेषात् निःसृतानामिति । २०. वरीवर्तमाना=अतिशयेन भव्यजीवानामुपकारकरणशीलत्वेन वर्तमाना ये वीतरागप्रभुप्रणीता ये
आगमाः तद्रूपे अम्बरे आकाशे इति ।