________________
श्रीयोगदृष्टि० उपोद्घातः ] दृष्टेः, आक्षेपकज्ञानं, भवव्याधिक्षयः, नित्यानित्यैकान्तनिरासः, गोत्र कुल-प्रवृत्तचक्रयोगस्वरूपं, इच्छा-प्रवृत्ति-स्थिर-सिद्धियमस्वरूपं, इत्यादि चाऽऽसमाप्तेः।
संपादितं चैवं श्रीमद्भिर्मोक्षमभिलाषुकानां गुणस्थानवृन्दमिव विचारणीयतमं योगाऽङ्गाऽऽदिकामनावतां दृष्ट्यष्टकं क्रमभावि । ___ तथाचाऽस्य २८विततैवाऽऽवश्यकी मुद्रणेति आरब्धमेतन्मुद्रापयितुं २ इटाल्याविषयनिवासिना विद्वद्वर्येण सुएलीत्याबानेन, चित्रतरं चैतदेव यदुत न यत्र तादृशो भाषाध्यापकाः,
तद्भाषाप्रचुरपुस्तकप्राप्तिस्तत्परिचयश्च, धर्मश्चान्य एव बाह्यदृष्ट्या, तथापि प्रस्तुतप्रकरणे. तेन परिश्रमः प्रारब्धः, समाप्तश्च निर्वेतनः । मुद्रणं तु गौर्जरीयसुरतपत्तनामिजनश्रेष्ठिवदेवचन्द्रलालभ्रातृनियुक्त-पुस्तकोद्धारमात्रोपयोगिलक्षद्रम्मव्यवस्थापत्रनियमित-कुसीदव्ययव्यवस्थाकारकश्रेष्ठि-नगीनभ्रातृभिरनुष्ठितं ।
प्रान्ते प्रार्थये विगतप्रार्थनार्थान् सज्जनान् मान्यतमान् इदं यदुत ग्रन्थकृतां शोधकस्य मुद्रापकस्य च चरितं चित्ते निचीय सफलीकार्या कृतिस्तेषां यथावदायन्ताऽवलोकनेन तदुक्ताऽनुशीलनेन च यथाशक्तीति १२सज्जनमनोऽनुसारिसरलसरण्यनुगन्ताऽऽनन्दोदन्वान् ।
स्तम्भपार्श्वप्रभोः पाद-भव्येच्छाकल्पशाखिभिः। समृद्धे स्तम्भतीर्थेऽयमुपोदरात उपस्कृतः॥१॥ 'वसु-रस-नन्द -निशेश प्रमिते भावसितत्रयोदश्याम् । आनन्देनानन्दे, यथार्थवार्तः समो ह्येषः ॥२॥
मोहनीयकर्मप्रबलता "xxx मोहस्य तिमिरेणोपमा सा दर्शनमोहनीयस्य यथार्थ-तत्त्वबोधश्रद्धानप्रतिपन्थकत्वमाश्रित्योक्तेति ज्ञेयं । _____ बुद्धो हि केवलिप्रज्ञप्तो धर्मोऽवश्य मोहतिमिरं विनाशयति, अनन्तशोऽप्यात्तानि चारित्रानि मोक्षफलमाप्तिं प्रत्यफलान्येव ज्ञातानि । ____ भगवतः केवलिनो धर्मस्य बोधरूपस्य लब्धिस्तु न जातु कस्यापि मोधीभवति, यतो यः कोऽप्यसुमान् लभते भगवतः केवलिनो धर्मस्य बोधि, स नियमादन्तरपाधपुद्गलावर्तादनावृत्तिपदं लभेतैव, ततो यथार्थमुक्तं भगवता केवलिना प्रज्ञप्तधर्ममधिकृत्य 'मोहतिमिरंसुमाली 'त्ति ।
-पू. आगमो० आचार्यप्रणीता श्री पंचसूत्र सं० टीका