________________
३०]
[ श्रीयोगदृष्टि० उपोल्यातः ....... "यत् नैते पूज्यपादाः श्रीमतः सिद्धसेनगणेरर्वाचीनाः, सिद्धर्षेः समकालीनाथ, किन्तु प्राचीनाः ''पूर्वोक्तयन्थसम्मतशरवृत्तवार्त्तशरीरवृत्तयः ।"
अत एव च १७"कतिपयप्रवचनाऽर्थतारतारकविशेषानुपदिदर्शयिषुः" इति श्रीमदभयदेवप्रभूक्तं पश्चाशकीयं वाक्यं क्राम्यति मतिमतां मनसि, १ नेदीयस्त्वात्पूर्वविक्छेदस्य केषाश्चित्तदर्थानां तैरवधारणाद्धेतोः । . अपि चात एवोदीरितं “पटुतमबोधलोचनतया" इति । - तथा च १९प्रभुप्रभविष्णुवदनमलयनिसृतानां प्रकरणसुगन्धीनां कुतः प्रादुर्भावो ? परीवर्तमानवीतरागागमाम्बरे २१तथाविधवचनव्रजाऽनवलोकनादिति कल्पितं कूटकल्पनाकल्पनकोविदः कुट्टितं निष्टङ्कनीय ।
प्रयोजनं सामान्यतो विदितं 'लोकरूढितत्प्रभावलब्धप्रभवग्रन्थविशेष "सिद्धान्तसारा"ऽऽदिविलोकनतः प्रायश्चित्तस्य प्रतिपत्ति: २४पञ्चेन्द्रियप्रचयपरासुकरणकल्पनाकर्तननदीष्णुः, तथापि व्यक्तं "आत्मानुस्मरणाय च" (२०५) 'अतः परोपकारोऽपि (२०६) इति समालोकनात् लोककानामात्माऽन्योपकार इति प्रतिभापथमागमिष्यति ।
अभिधेयनिर्णये तु यद्यप्यन्यैः “योगश्चित्तवृत्तिनिरोधः" (पा. १-२) इति लक्षितं, तथापि शून्यतायां मूर्छिताधने कावस्थायामपि तथाभावादन्यथापि च "तदा द्रष्टुः स्वरूपेऽवस्थानं" (पा० १३) इति फलानुकूल्याभावाल्लक्षणं लक्षितं लक्षणैकचक्षुष्कैः प्रभुभि
र्भावसारं "मोक्षयोजनभावेन" (११) इति वाक्येन तादृग्मोक्षानुकूलचेष्टामात्रस्य योगलक्षणलक्ष्यत्वं, तथाच को भेदो भवतां गुप्तेर्योगस्येति निरस्ततरां ।
एषैव चेच्छा-२५शास्त्र-सामर्थ्यपर्यन्तानुधावनधौरेयी धारणाऽन्यथा सामर्थ्यस्य व्याघातादित्यलं प्रसक्तानुप्रसक्तेन।
अत्राऽभिधेयस्य योगस्य बालबोधानुसारी विभागश्चिकीर्षित इति प्रथमं "मित्रा तारा बला दीप्रा स्थिरा प्रभा परा" इति नामत उद्दिश्य दृष्टयोऽष्टौ, तत्स्वरूपं, तत्रत्यो बोधः, खेदाऽऽदिदोषाऽपनोदोऽद्वेषाऽऽदिगुणप्राप्तिश्च यथायथं निष्टङ्किता ।
२ विपश्चिद्विज्ञानवेद्य चाऽत्र सञ्चारितं चारित्रचङ्गिमाऽऽधारैः योगबीजानि, शिष्टानुसारिता, अवश्चक्योगत्रयं, अवेद्यसंवेद्यपदं, भवाभिनन्दिलक्षणानि, कुतर्कनैरर्थक्यं, शास्त्रप्राधान्यं, सर्वज्ञमताऽभेदः, २ प्राणिवैचित्र्यनिबन्धनदेशनावैचित्र्यमित्याया चतुर्थ्या