________________
श्रीयोगदृष्टि० उपोद्घातः ]
[ ८९
चतुर्दशशतीमवाप्तबौधैर्वार्धक्येऽपि विनिर्मितां प्रायश्चित्तरूपतया स्वीकृतां कृतधीविषयविषयां विलोककानां विवेचकानां, व्यक्त विबुधव्यक्तीनां सामर्थ्यप्रतिभानं तत्र, तथा च नोक्ताऽऽशङ्काकणिकापि ।
१
१
अन्यच्च पुस्तक व्यवस्थाया व्यवस्थया विद्वद्भिः संभूय भूयो भव्यभव्याऽवबोधनिबन्धनबन्धुरतोद्बोधनेन प्रतिष्ठितत्वात् न तत्कालो लोकोक्तिप्रसारवत् नवीनकृतिख्यातिबद्वाऽत्र त्राणकारी तेषां यथायथं । तत्त्वार्थसाधक-तत्वार्थवृत्तिकृत्सिद्धसेन गणीनां वचनततिग्रुपजीविनः श्रीमन्तः साधु साधितसाध्या इति तदवक्तमाः स्पष्टतममित्यपि न " विचारचणचणीयं यतः " तथा चाऽऽह महामतिः" इत्यादिवाक्यवृन्देन वर्णितो महामतिः सिद्धसेन दिवाकरो यथार्थाभिधानः १२ कुविकल्प विश्वच्छायाच्छेदनच्छेक - शतसहस्रग्रन्थग्रथनाबोधतमस्तत्यवष्टब्धान्तःकरण विकासकरणकोविदतमत्वाद्, यतो दरीदृश्यन्त एव पूज्यपादवर्णितानां "प्रसिद्धानां प्रमाणानां" इत्यादीनां वचनवृन्दानां श्रीमद्दिवाकरपादप्रणीतेष्वेव न्यायाऽवताराऽऽदिषु मूलत आविर्भावः । श्रीमत्सिद्धसेनगणयस्तु द्वितीयाऽध्यायवृत्तौ संज्ञां व्याख्यायन्तो व्याख्यामुपवर्णितवन्तः श्रीनन्दीसूत्रीयां हारिभद्रीं, तथाच द्वयेषां "श्रीमद्दिवाकर - गणिपदोपाधीनां सूरीणां पार्थक्य विलोकनेन स्पष्टं प्रतिभास्यति श्रीमतां तत्कालीनत्वं ।
१५
यच्च श्रीमत्सिद्धर्षि समकालीनतामाकलय्य स्वान्तेन १४ ध्वस्तज्ञानधाम्ना प्रतिपाद्यते तेषामत्रचीनता "आचार्यहरिभद्रो मे, धर्मबोध करो गुरुः" इति भवप्रपञ्च प्रपञ्चनपटूपमितभवप्रपञ्च कथामालम्बमानेन, तदपि पूर्वाऽपरविचारशून्यमेव, यतो वक्ति महात्माऽसौ स्वयं “ अनागतं परिज्ञाय" इति, तथा च नैते समकालीना द्वये ।
न च चर्च्यमेतत् यदुत गुरु-शिष्याऽऽदिव्यवहारो नाऽसमकालीन इति, यतो व्यवहारविशेषाणां विशेषतया व्यवहारात्, न वाऽत्र व्यवहारव्याहृतिरस्ति, किन्तु ख्यातात्मन उपकारित्वयेनापि विहितं महात्मना, न च विवाद: स्वयंख्यातरि लब्धख्यातौ ख्यातरि ।
तथा चोपमितिभवप्रपञ्चीयः प्रथमः प्रस्तावः ।
“ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैर्ज्ञातः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसि - द्धमेतदस्माकमिति । "
“देशकालव्यवहितानामपि जन्तूनां छद्मस्थाऽवस्थायामपि वर्त्तमानाः ।" तथाच निवादं विद्वद्वृन्दवेद्यं निर्णयमेनमा तिष्ठामहे
१२