SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारकाssलेखित प्रस्तावनासंग्रहरूपे श्री आनन्दरत्नाकरे दशमं रत्नं श्रीयोगदृष्टि० उपोद्घातः योगदृष्ट्युपद्धातः ॥ श्री गणधरेन्द्राय बोभवतु नतितयः ॥ यदुत अवधारयन्तु 'अनवधृतधिषणाऽधिगमाधरीकृत धिषणाधिषणास्तत्रभवन्तः शुभवन्तः सैदपर्य प्रकरण मे दुपदीक्रियमाण े ममानमानोन्मान वितरणचणमुद्विश्या' ऽक्षताद्यन्तेक्षणीयं प्रणेतारोऽस्य स्याद्वादज्योतिप्रभाप्रचयाऽवाप्ताऽबाधबोध्यपदार्थ प्रकर- प्रतिहतानादिकालीनशुभेतरवासनाभिव्यञ्जक पशुवधतगम्यगमाद्यनार्यकार्यकारणबद्धकक्ष – जैमिनीयाऽबाध्यप्रत्यक्षाssदिप्रमाणमचयप्रमितिप्रमेयस मुदयापह्नवप्रचुरका प्रेक्षा सरश्रीव्यासादिमतगाः श्रीश्वेताम्बर - गाग्रणीपदप्रतिष्ठिताः श्रीमन्तो हरिभद्रसूरयः । प्रादुर्भविष्यत्येव पर्यनुयोजकानां परमपदप्रदानपट्वबाधबोधप्रेप्सूनाम 'खिलाडखिलबोधधुराधरेयमान्या प्रश्नततिरस्मिन् यदुत कदा किमर्थं चाssविर्भावो बोभूयाञ्चक्रेऽस्य ग्रन्थचक्रे ? | तत्र प्रथमे तावत् पर्यनुयोगे - 9 "पंच पणसीए, विक्कमकालाओ झत्ति-अत्थमिओ । हरिभद्दसूरिरो, धम्मरओ देउ मुक्खसुहं" ॥५३॥ इतिविचार सारसारोदाहारात् स्पष्टं स्पष्टीभवति स्पष्टतमयथार्थेतिहास - ग्रन्थाऽभ्यासानां (यत्) "वैक्रमीये शतके षष्ठे सूरीणामज्ञानध्वान्तत तितिरस्करणतरणीनां भूमण्डलभाभिनीतिलकायिता सत्ता ।" ये चाऽनवबुद्ध सिद्धान्ततत्त्वाः संगिरन्ते यदु " न स्यात्तावन्मात्रेऽन्तराले सति व्यवस्थिताऽऽगमव्यावर्णनं विस्तृततरं, सिद्धान्त - पुस्तकाऽऽरोहकालोऽपि यतः स एवेति भाव्यमनेइसाचीनेनेति” (ए) तदयुक्ततमता प्रतिभापथमापतिष्यति तदीयां चतुश्चत्वारिंशदधिकग्रन्थ
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy