________________
অন্ধ গলা ]।
[७९ हेतोरमुष्मादेव श्रीमता ''परमपुण्यपाथेयपुष्टात्मश्रीमद्वर्णनीयपादानामागमनोत्सधे. ऽकाण्ड एवारब्धं विवादलास्यं वाराणसीवासवासितानिवर्त्तनीयासममोहनीयमलमुषितान्तःकरणनिलयज्योतिरालयाविवेकालयेन शंकरग्रामण्या, पर्यनुयुक्ताः परमगुरवः "शैशव- यौवन - वार्धक्यरूपावस्थात्रितयविहिताऽनेकदुर्दमवादिवृन्दजागर्जद्गजघटाकुम्भकषणकण्ठीरवायमाणा वाद्युपाध्यलकृताः स्वाभाविकसौभाग्यभङ्गीपरिवृतकरणाः 'प्रतिभाप्राग्भार पराभूतपीयूषपायिप्रणयार्चितचरणदेवाचार्याः श्रीमदाराध्यपादाः श्रीमद्देवाचार्याः कान्तासम्मिततया शब्दार्थप्राधान्यं प्रोज्झ्य २२केवलरसप्राधान्यावगाढानेकस्वरूपे काव्यविषयेऽर्थप्राधान्यमनुसृत्य 'साधनीयार्थसिद्धिसाधनसाधनसावधानायामान्वीक्षिक्यां चौष्ठगोष्ठीमिषेण ।
तादृशे चावसरे "ऽवसरवेदवेधसामन्तिपदामुपस्थानं नाऽसमञ्जसं प्रत्युतोभयपक्षनिष्पक्षपातप्रशंसाप्रबन्धास्पदम् , अन्तर्भाषणादि-प्रतिबन्धकापत्तिस्त्वा२ पाद्यमानास्थानधर्माख्यानकुशलवार्ता वृत्तान्तप्रख्येष्वन्तेवास्यधिकारबहिर्भूतेषु, श्रीमतां च २'चौलुक्यचन्द्रश्रीसिद्धराजमौलिमुकुटद्योतिचरणचरणरुहामनेके अभवन् श्रीमन्तो रत्नप्रभ-माणिक्यमुनि-महेन्द्रसिंहाद्याः २"गुरुप्रवरपरिचर्यापर्याप्त्याप्तपारमर्षादिप्रचुरतरराद्धान्तसिद्धान्ता वादविजयाहवाहूतजयश्रियः"सिद्धान्ततत्त्वनदीष्णताकनकनिकषपट्टा विदिता जगतीतले जगज्जन्तुजातजीवितत्राणक्षमक्षमादिगुणगणाङ्गीभूताः, समापतितश्च मल्लप्रतिमल्लन्यायेन वादसमरो 'जगज्जनयितृविषयस्तत्र मुनिमाणिक्येन माणिक्यदृढतातिशायिना माणिक्येन महात्मना, एष एव महात्माऽपरेष्वप्येतादृशेषु शेषेषु प्रयोजनेषु दिनकर इव दिने स्वप्रभाव प्रादुरभावयदेव ।
प्रभावकचरितेऽपि श्रीमद्देवसूरीयप्रबन्धे तत्प्रभावः परमो बोबुध्यत एव, यतस्तत्र कुमुदचन्द्रवादप्रकरणे ।
अथाह देवसूरीणां, माणिक्याख्यो विनेयराट् ॥ कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यधिणा, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नाति पन्नगेश्वरशिरोरत्नावतंसश्रिये, यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दानिमाम् ॥९४॥
अथ चोवाच माणिक्य, विज्ञप्ति लिख मामिकाम् । श्रीमत्पत्तनसङ्घाय, विनयातिशयस्पृशम् ॥१११॥'