SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ t ७७ छन्दो० उप० टिप्प० ] ४२. तत्राऽपि = मध्यमरोत्या जीवनचरित्राssलेखनेsपि । ४३. सुधा=अमृतं तस्य मधुरीकार : - मधुरीकरणं तस्य करणं = चेष्टेति भावः । ४४. चतुराणां = विचारदक्षाणां यत् चक्रं तत्त्वसमीक्षा - गोष्ठयादिषु बोभूयमानं वृत्ताकारेण जायमानपर्षदो रूपं, लक्षणया चक्राकार स्थितपर्षदि संमिलित विदुषामपि चक्रत्वेन व्यवहृतिमपेक्ष्य जाता - वेकवचनं च विवक्ष्याsत्र तस्य चेतसि इति सङ्गन्तव्यम् । ४५. ईदृक्=प्रस्तुतग्रन्थसदृशः गुम्फः रचनाप्रकारः विद्यते यस्य तदिति विग्रहः । ४६. तत्तद्विशेषा = वेदादयस्तेषामुपयोगि इति विग्रहः । ४७. प्रज्ञाया यदवदातत्वम्–नैर्मल्यं, तेनावज्ञातः पुरन्दरस्य- इन्द्रस्य गुरुः=बृहस्पतिर्यैरिति विग्रहः । ४८. निस्सीमा चासौ प्रतिभा च तस्याः यः प्राग्भारः तेन पराकृतम् = अभिभूतं पुरन्दरगुरु-सरस्वत्योः न तस्य इति तात्पर्यगामी विग्रहः । ४९. सर्वतन्त्रेषु =सर्वशास्त्रेषु स्वतन्त्रा साहाय्याऽपेक्षारहिता चाऽसौ घोषणा = बुद्धिस्तयाऽन्वितत्वम् इति भावः । ५०. अत्र चतुर्थी “क्रुद्रुद् हेर्ष्यासूयार्थाना " मिति (२-२-) सूत्रेण व्याप्याऽर्थे ज्ञेया। ५१. न लब्धं मध्यं=अवगाहो यस्याः, एतादृशो यः मतिरूपो हूहः तस्मात् निर्व्यूढश्चासौ प्रवाहः, तत्कल्पानि इति व्युत्पत्तिः । ५२. प्रतीतिविषयं नेया इत्यर्थः । ५३. प्रतीता = प्रख्याता प्रतिभा येषां तेषाम् । ५४. अमेयानि च तानि गुणरत्नानि तेषां रत्नाकरायमानाः, तथा श्रीमद्भिः जिनवरैरुदितं यत् उदितोदितं=अतिशयेन उदयापन्नं शासनं = नियमनं यस्यैतादृशशासनस्य प्रभावकाः तैरिति भावः । ५५. मन्तुरपराधः तस्य या क्षमा तस्याः मूलभूतानाम् । ५६. आत्मनो ये गुणाः मौलिकशक्तिविशेषाः, तेषु लीनं मानसं येषां तेषां चरणपङ्कजयोः षट्पदरूपा इत्यर्थानुकारिणी व्युत्पत्तिर्ज्ञेयाऽत्र । ५७. सकलाश्च ते प्रमाणपथि अवतीर्णाश्च छन्दसामनुशासने प्रवणाः, अपरे च ते ग्रन्थाश्च तेषां यत् नवनीतं=सारभागः तस्यात्पत्वमिति तात्पर्यगामी विग्रहोत्राऽवबोद्धव्यः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy