SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७६ ] [ छन्दो० उप० रिप्पं० २८. धीः बुद्धिः सारा=अधीना येषां तेषां, श्रेष्ठबुद्धिमतामित्यर्थः । २९. छन्दोऽनुशासनमपि। ३०. प्राक् उदीरिता=व्यावर्णिता चासौ, अनीरिता नाम कस्यापीरणं सहायकर्म नास्ति यस्यामित्ये तादृशी या अनुशासनत्रयी शब्दानुशासन-लिङ्गानुशासन-काव्यानुशासनरूपा । ३१. अत्र हि 'कणिका'शब्दप्रयोग एतद्ग्रंथस्योपयोगित्वेन स्वीकृतौ न कस्याश्चिदल्पप्रमाणाया अपि शङ्काया लेशमात्रप्रसर इति ध्वनयति । ३२. विद्यारूपा या प्रतत्यः लताः तासां ततिः श्रेणिः, समूहो वा, तदर्थं भूरुहः वृक्षा इव ये तेषां । विद्यासम्पन्नविदुषामित्यर्थः । ३३. मोहयति यत् तत् मुह मोहः (क्विबन्तप्रयोगः) उज्झितः मुहौस्ते तेषां, वस्तुविचारे व्यामोह रहितानामित्यर्थः । ३४. ऊहा=पूर्वापरसङ्गतिपर्यालोचनस्वरूपा तां स्वीकुर्वताम् , पूर्वाऽपरसङ्गतसमीक्षाविचारशक्ति मतामित्यर्थः । ३५. अनवयं यत् अनुशासनं व्यवस्था, तद्रूपाणां शब्द-लिङ्ग-काव्यछन्दःरूपविद्यानां ज्ञानानां यत् चतुष्कं तस्य यत् अनुशासनं-सम्यक्बोधस्तत्र अलंभविष्णु-समथै यत् अनुशासनचतुष्कं= शब्दानुशासन-लिङ्गानुशासन-काव्यानुशासन-छन्दोऽनुशासनरूपशास्त्रचतुप्कं तस्येति व्युत्पत्ति. रानुसारिणी विज्ञेया । ३६. इतरथा नाम प्राङ्निर्दिष्टसमासादितरः विस्तरस्तथाकरणे=विस्तरतः व्यावर्णने । ३७. तस्य-जीवनचरित्रस्य । ३८. तथा विस्तरतः व्यावर्णनारूपेण । ३९. स्थल-समय-सङ्कोचादिकारणत इति शेषः । ४०. प्रस्तुत छन्दोऽनुशासनरूपं अपश्चिमं=अन्तिमं यदनुशासनं, तस्य मानेन सापेक्षत्वरूपेण अतिशयेनाऽतिरेकः महत्त्वरूपो यस्य इति तात्पर्यगामी विग्रहः । एतद्धि विशेषणं अग्रे निर्दिष्ट तस्ये तिपदलक्ष्यजीवनचरित्रस्य विज्ञेयम् । एतस्य विशेषणस्य अयं भावः अनुमीयते यत् । एतद्धि छन्दोऽनुशासनं प्रणिनीषितानुशासनचतुष्टयेऽन्तिमं, अतः एतस्य हि मुद्रणावसरे ग्रन्थकर्तुः जीवनचरित्रं नाऽतिसंक्षेप-विस्तरेणाऽपि समुल्लिखनीयमिति । ४१. जीवनचरित्रस्य ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy