________________
छन्दो० उप० टिप्प०] १४. एतत् पदस्य प्राक्तनेन 'न भवति' इत्यनेन सहाऽन्वयो बोध्यः । १५. एतस्याऽपि "न भवति" इत्यनेन सहाऽन्वयः । १६. अतीतश्च अनागतश्च वर्तमानश्च योऽसौ कालस्तमथवा येऽतीन्द्रिया अर्थास्तेषां ज्ञानेन सम्पन्नता___ऽऽदिरूपो यः प्रभावस्तेन लब्धं कलिकालसर्वज्ञत्वरूपं बिरुदं यैस्तेषामिति विग्रहोऽत्रावबोध्यः ।
- इदं हि पदं अग्रेतन "श्रीहेमचन्द्रप्रभूणा''मित्यस्य विशेषणं विज्ञेयम् ॥ १७. पाणिनीयाद्यानि च तानि अखिलानि=समस्तानि शब्दानुशासनानि तेषां यशःरूपो यस्तारागणः,
तस्य या प्रभा, तस्याः पटले विकर्तनः-सूर्यस्तत्समप्रभम् इति व्युत्पत्तिः । १८. इदं हि पदं सर्वव्याकरणेषु मूर्धन्यरूपेण गीयमानस्य पाणिनीय-व्याकरणस्याऽपूर्णताद्योतकं
काकूत्प्रेक्षागमकं विज्ञेयम् । ___महर्षिपाणिनिना सूत्राणि रचितानि, मुनिकात्यायनेन वात्र्तिकं विरचितम् , भगवता पतञ्जलिना महाभाष्यं सन्दृब्धम् , तथाऽपि पाणीनीयं शब्दाऽनुशासनं बहुत्र शब्दव्या
वृतावसमर्थमूनं वाऽनुभूयते विद्वद्भिः । १९. सम्पूर्ण सर्वप्रकारेणेत्यर्थपूरकमिदं पदम् , नहि सम्पूर्णीकृतमित्यर्थः । २०. बालैः सुष्टु बोध्येत यथा तथाप्रकारं, यथावत् यथार्थ पृथग् व्यवस्थितरीत्या यद् ज्ञानं, तस्य - करणे उपयोगिकरणभूतमित्यर्थः । २१. स्वर-व्यञ्जनानामाबालप्रथितानुक्रमसङ्गतिनाऽवधारणादिसौकर्यगुणयुक्तमित्यथैः ।। २२. काव्यं, तस्य हेतवः, स्वरूपं, गुणाः, दोषाः, रसः, तदादीनां यत् स्वरूपं तस्य विभावना=पर्यालोचनं
तदर्थ अपूर्वः=विलक्षणः आदर्श: दर्पणं तद्वदाचर्यमाणमिति तात्पर्यानुसारी विग्रहः । २३. अस्य पदस्य सन्दर्भादिगतस्य “तयुक्तमेवे" त्यनेन सहान्वयः ।
एवं च तम् अतीताऽनागत..........सर्वज्ञत्वबिरुदानां भगवतां श्रीमद्धेमचन्द्रप्रभूणां क्रमेण श्री सिद्धहेमाख्यं......शब्दानुशासनम्..........लिङ्गानुशासनं........काव्यानु
शासनं चेति जगति अप्रतिमरचनं युक्तमेव" इति तात्पर्यानुगुणोऽन्वयः ? बोध्यः । २४. शकलितः खण्डीकृतः शङ्कारूपो दोषः येनेति व्युत्पत्तिः । २५. अनेकेषां छन्दसां विज्ञानरूपः योगः यस्मादिति व्युत्पत्तिर्विज्ञेयाऽत्र । २६. छन्दोभङ्गाः उच्चारे वर्णमात्रा दिन्यूनाधिक्येन स्खलनं, विरतिः छन्दसि कुत्र कियदक्षरेषु
कियतीसु मात्रासु च विरामः, एतत्प्रभृतियों विवेकस्तेन या वाग्मिता-कुशलता इति विग्रहः । २७. अखण्डा-सम्पूर्णा या पण्डा=सदसद्विवेकशालिनी बुद्धिः, तयाऽनुगताः विचाराः येषां, तेषां ।