SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ఉదదదదదదదదదదదదదదదదదదదTOON श्रीपूज्यपादागमोद्धारकाऽऽचार्यश्रीलिखितप्रस्तावना ___ विषमपदार्थसूचिका आनन्दलहरी-टिप्पणी ___ (छन्दोऽनुशासनम् ) XPREPAREERTex १. सहृदयानां हृदयं तदेवालवालः तत्रोद्गता याऽनवद्या विद्यारूपा व्रततिः-लता, तस्याः फलयुगलं सम्यग्ज्ञान-क्रियारूपं, तस्याऽऽस्वादार्थ सतृष्णं-उत्कंठायुक्तं अन्तःकरणं येषां ते इति व्युत्पत्ति रत्रार्थानुपातानुसारं विज्ञेया । २. सर्वानि च यानि तन्त्राणि-दर्शनान्तरीयशास्त्राणि । तेषामानुकूल्येन, सर्वदर्शनसम्मतरीत्येत्यर्थः । ३. अतिशयेन निबिडा या चासौ जडिमा अज्ञानदशा तयाऽवष्टब्धा, व्याप्ता या मानसवृत्तिः, तस्याः प्रातिकूल्येन गाढाऽज्ञानदशाबलोत्पद्यमानविरुद्धभावाऽपसारणेनेत्यर्थः । ४. नास्ति प्रतिमा-साधर्म्यवती व्यक्तिः यस्यैतादृशो यः सुधारसः, तद्वदाचरमाणा या अनघा= दोषरहिता शब्दसृष्टिः तस्याः शर्वरीशः चंद्रस्तद्वदाचरमाणादिति विग्रहः । ५. स्वः स्वर्गः, शिवश्रीः-मुक्तिलक्ष्मीः, तयोः प्रदाने पटुः निपुण इति विग्रहः । ६. पङ्कस्य मलिनत्वार्थे विवक्षां कृत्वा अत्र 'निर्मल' इत्यर्थसङ्गतिः कार्या । ७. एषा हि गाथा प्रायः निशीथचूर्णिगता संभाव्यते । ८. पापरूपा या व्याघ्री भावजीवितव्याघातिका, तस्या आवसथा वसतिः, तस्या इति व्युत्पत्तिः । ९. स्वसम्बन्धि-वाणीव्यवहारेष्वित्यर्थः । १०. एतद्धि विशेषणं "क्रोधकृशानोः उद्भूतिः' इत्यस्य विज्ञेयम् । ११. शब्दानुऽशासन-लिङ्गाऽनुशासनस्वरूपे । १२. पापरुपपङ्कस्याऽपहारः-निरासः, तद्रूपा या शोधिस्तस्याः विततिः प्रसारस्तस्मै । १३. अविकलैः व्यवस्थितस्वरूपैः विभावाऽनुभावाऽव्यभिचार्यादिभिः संकलितः स्वभावो येषामेतादृशानां रस-भावादीनां यदभिधानं तान्येव रत्नानि, तेषां निधानरूप इति विग्रहः ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy