________________
आसां प्रस्तावनानां प्रथनमानन्दसागरसूरीश्वरैः श्रीमद्भिश्शास्त्रपारावारतलावगाहनावाप्तविशिष्टबोधरत्नैश्चके। चिरत्नाचार्यस्मृतिविधायिनी श्रुतोपासनाऽमीषां विदितप्रायैव । प्रस्तुतप्रस्तावनाकदम्बकात्मक आनन्दरत्नाकरोऽपि विदुषामेतेषामुपरि सद्भावाऽहोभावं जनयिष्यत्येव ।
प्रस्तावनापञ्चदशकेऽस्मिन् तत्तद्ग्रन्थोपयोगिनी विचारणा प्रौढ्या प्रतिपादिता वर्तते, ततश्च तत्तद्ग्रन्थाध्ययनाय समुत्सहते चेतो योग्यानाम् । विशिष्टावबोधमन्तरा प्रस्तावनावाचनमपि न सुकर सामान्यजनतानाम् । प्रस्तावनायाः काठिन्यमपाकतुं तत्तत्प्रस्तावनाया अनन्तरं साधीयसी टिप्पणी वितीर्णास्ति । टिप्पणीयं श्रीमता मुनिवराऽभयसागरेण गणिना विदधे, सेयं पिपठिषूणामतिशयेनोपयुक्ता भाविनीति स्पष्टम् । सर्वा इमाः प्रस्तावना अर्धशतकसंवत्सरपूर्वमाविर्भूताः सन्ति । अन्याः शतशो ग्रन्थानां प्रस्तावना अपि सङ्ग्रहरूपेणेत्थं प्रकटीभवेयुस्तदा श्रुतविवृद्धौ परमनिमित्तं भविष्यन्त्येव, स्यात्समेषामज्ञानतिमिरनिराकरणकुशलः सम्यग्ज्ञानसूर्योदय इति ॥ (राजपुर)
विजयधर्मधुरन्धरसूरिः (तणसा)
पौषशुक्लापञ्चमी (सौराष्ट्र)
ग्लौतनयः
___ श्रामण्यशुद्धिहेतवः ० आगमपर्यालोचनम्
गीतार्थनिश्राविहृतिः
संयम-यतना परेता श्रामण्यशुद्धेः प्रधान हेतवः ॥