________________
उ....प....क्र....म....णि....का
निबन्धयितारः पूज्याचार्यवर्यश्रीविजयधर्मधुरंधर
सूरीश्वरमहाभागाः
विश्वस्मिन् विश्वेऽस्मिन् प्राणिनां परमात्भपथ-प्राप्तिः परमदुर्लभाऽस्ति, नरभवादिकमवाप्यापि केषाश्चिदेव पुण्यभाजां भवति तत्त्वबुभुत्सा । तत्वं तु भगवद्धिरर्हद्भिः केवलज्ञानतो ज्ञात्वा लोकाऽलोकस्वरूपमखण्डं देशितमात्महितकरम् । अर्थतो देशितां जिनैर्गणधरैश्शब्दतो प्रथितां तां तत्त्वपूर्णा द्वादशाङ्गीमवलम्ब्यानेके भव्या भवपारावारस्य परं पारं प्रयातुमुघता अभूवन् । परं कालानुभावतः सत्वानां सत्त्व-हान्यादि सञ्जातम् । तत एव महाप्रवहणप्रख्या सा द्वादशाङ्गी शौर्णविशीर्णाऽभवत् । एवमपि सन्ति साम्प्रतमुडुपसदृक्षाः शुचिभावभृता आगमादयः सहस्रशो प्रन्थाः । तेषु तेषु अन्येषु द्रव्यानुयोग-चरणचकरणानुयोग-धर्मकथानुयोग-गणितानुयोगविवरणं रुचिकरं वरीवर्ति।
नरजन्मन्यपि प्रायशो जीवास्तीत्रज्ञानावरणीयकर्मोदयवशवर्तिनोऽक्षरश्रुतलाभमपि न लभन्ते; अक्षरश्रतमधिगत्य व्यावहारिकविज्ञानपङ्के पतिता बहुशो न ततो बहिरागन्तुमलम् । एवञ्च सत्यपिवर्यसाधनजाते ततश्च भूरिशो मिथ्यात्वोदयेन विपरीततत्त्वशीलन एव स्वसमयं गमयन्ति ।
तथा चजिनवरोपदिष्टं गणधरादिसूरिप्रवर प्रथितं सम्यक् ध्रुतमधिगन्तुं भव्यः साधु यतनीयम् । ___ तत्र प्रथमं श्रुतमिदं परमाभीष्टसाधनमस्तीति विश्वासो दृढभूमिमानेयः । ततश्च तत्तश्छू तप्राप्तियोग्यं स्वसामर्थ्यमनुसन्धेयम् । गुरवो योग्यतामवबुध्य शिष्यं तत्तदध्ययनाय प्रवर्तयन्ति, परं तत्तद्ग्रन्थपरिचयाघापादनयोग्यस्य प्रस्तावनादिकस्य साम्प्रतं शिष्टसम्मतस्य प्रारम्भे लेखनस्य व्यवहारः प्रवर्तते । दृष्ट्वा तद् ग्रन्थं वाचयितुमुत्सहन्ते शतशो जिज्ञासवो जनाः । आनन्द -रत्नाकराख्योऽयं ग्रन्थो न स्वतन्त्रः, अपितु तत्तत्पञ्चदश ग्रन्थानां प्रस्तावनानां सङ्ग्रहात्मकः ।
श्रीविद्यगोष्ठी-श्रीवीतरागस्तोत्र-श्रीस्याद्वादभाषा-श्रीपाक्षिकसूत्र-श्रीकल्पसूत्र-श्रीअध्यात्ममतपरीक्षा-श्रीवन्दारुवृत्ति-श्रीछन्दोऽनुशासन-श्रोजल्पकल्पलता-श्रीयोगदृष्टिसमुच्चय-श्रीकर्मग्रन्थ -श्रीपश्चाशक -श्रीधर्मपरीक्षा-श्रीषट्पुरुषचरित्रेतिपंचदश ग्रन्था लब्धप्रतिष्ठाः सूरिप्रवरसन्दृब्धामात्म-बोपदायिनों शेमषी जनयितुमवन्ध्यजननीकल्पा विराजन्ते यथा, तथैवायं प्रस्तावनाकलापोऽपि ।