________________
श्रीमहावीरविज्ञप्ति राद्यननुमोदनेऽपि तदविनाभावी विहारस्त्वनुमोदनीयः स्पृहणीयश्च, अन्यथा जिनाज्ञा न स्यात् । यद्वा कार्येच्छूनां कारणेच्छुत्वनियमादितिन्यायात् विहारहेतुनद्युत्तारादावपि स्पृहादि स्वीकर्तव्यमेवेत्यलं प्रपञ्चेन । तथा च सति विहारो जिनाज्ञा, न पुनर्जिनपूजेति जल्पनं मद्यपानिजल्पनमिव पूर्वापरसङ्गतिविकलं सकलजनप्रतीतमेव । शेषं सुगममिति काव्यार्थः ॥ ___ अथ अर्थापत्त्या वेश्याजनपूजाप्रकाशकस्याऽस्य कलिकालतुलामाविष्कुर्वन् काव्यमाहचार्वी चन्दनचम्पकादिकुसुमैर्नार्चा सदर्यक्रम !, त्यागीशस्य दिशन्नहो ! जडसभागृङ्गारभूतः स्वयम् । अर्थानर्थविवेकविरहितो वेश्याजनं पूजय,न्नर्थान्मूर्खजनं ह्यवातरदयं कालः कलिमूर्तिमान् ॥२४॥ __ व्या०-हे सदर्यक्रम ! उत्तमजनपूज्यपाद !, अहो आश्चये। अयं लुम्पाकनामा अमूर्तोऽपि कतिचिजनानां महापापकर्मानुभावात् कालः कलिदुषमाकालो मूर्तिमानऽवातरत्-अवतीर्ण इत्यन्वयः। किंलक्षणः ?, अर्थानर्थविवेकगविरहित:अर्थश्चानर्थश्च तयोविवेको-विवेचनं यस्या एवंविधा या हग्ज्ञानलोचनं तया विरहितः-शून्यः। पुनः किंलक्षणः १, जडसभाशृङ्गारभूतः-मूर्खपर्षदलङ्काररूपः। किं कुर्वन् ?, दिशन्कथयन् कथं ?, चन्दनचम्पकादिकुसुमैस्त्यागीशस्य अर्हतोऽर्चापूजा न चार्वी-न शोभनेति, अत्रेतिरध्याहार्यः। अर्थात्-अर्था