________________
द्वात्रिंशिका
पूजाऽणुत्रतिनोऽर्हतां न कुसुमैर्युक्ता जिनेत्यावदन्; मद्याशीव तव द्विषन्नद्दह वै वैरूप्यभागीक्ष्यताम् ||२३|| व्या० - हे अर्हन्! हे प्रभो ! हे जिन ! अहह खेदे, वै निश्वितं । तव द्विषन्- लुम्पाकनामा तव वैरी मद्याशीव- मद्यपानिवदित्यर्थः । वैरूप्यभाग्-वैरूप्यमसङ्गतजल्पनादिचेष्टया वैसदृश्यं भजत इति वैरूप्यभाक्, ईक्ष्यतां दृश्यतामित्यन्वयः । मद्यपानिचेष्टामाह-किं कुर्वन् ?, अणुव्रतिनः - श्राद्धस्याऽर्हतां-भगवतां कुसुमैरुपलक्षणाच्चन्दनादिपरिग्रहः, तैः पूजा न युक्तेत्यमुना प्रकारेणाऽऽवदन्-मूर्खजनेभ्यो ज्ञापनाय वचसा ब्रुवाणः, अपीति विरोधे । पुनः किं कुर्वन् ?, विरचयन् - विकल्पयन् किं ?, पेशलमुत्तरं - मनोहरं प्रतिवचः, कथम् ?, इति- अमुना प्रकारेण, तत्प्रकारो यथा नद्युत्तारपुरोविहारकरणं । नद्या उत्तार उत्तरणं पुरो यस्त्वेवंविधो विहारो - ग्रामानुग्रामविचरणं वाचंयमानां - सर्वविरतीनां, जिनादेशो - जिनाज्ञेत्यक्षरार्थः ।
भावार्थस्त्वयं-प्रत्याख्यातसर्वसावद्ययोगानां संयमाऽऽराधनत्वेन नद्युत्ताराविनाभावी विहारस्तावज्जिनाज्ञा, अनाज्ञा चाणुत्रतिनामपि सम्यक्त्वनैर्मल्यहेतुः पुष्पाद्यविनाभाविनी जिनपूजेतिविरोधः, जीवविराधनासम्भवस्योभयत्र तौल्यात् । ननु नद्युत्तारादौ न पुनः पुनः करणस्पृहानुमोदनादि, पूजायां तु तद्वैपरीत्यमिति कुतस्त्यं तौल्यमिति चेत्, उच्यते- नहि वयं पूजायां पुष्पादिविराधनाऽनुमोदनीयेति ब्रमः, किन्तु पुष्पाद्य विनाभाविनी पूजाऽनुमोदनीया स्पृहणीया च । तथा साक्षान्नद्युत्ता
ܬ
ܕ
५३