________________
श्रीमहावीरविज्ञप्तिविशिष्टं सामान्यविशेषाद्यनन्तधर्मात्मकाशेषपदार्थविषयकं ज्ञानं, केवलज्ञानमित्यर्थः। ननु विशेषावबोधकं ज्ञानं सामान्यावबोधक च दर्शन मिति प्रवचनवचनात् कथं ज्ञानस्य सामान्यावबोधकत्वमितिचेत् । मैवं, ज्ञानदर्शनयोः क्रमेण सामान्यविशेषानवबोधकत्वे सर्वज्ञस्य सर्वज्ञत्वसर्वदर्शित्वयोाघातापत्तेस्तथा च
“संभिन्न पासंतो, लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ, भूअं भव्वं भविस्सं च ॥" इति सिद्धान्तबाधा स्यात्, तस्मात् ज्ञानदर्शनयोस्तुल्यविषयत्वेऽपि ज्ञाने सामान्यमुपसर्जनीभावेन विशेषस्तु प्रधानभावेन विषयीस्यात्, दर्शने च सामान्यं प्रधानीभावेन विशेषस्तूपसर्जनीभावेन चेति विशेषो वोध्यः । उक्तञ्च
“य एव हि उपसर्जनीकृतसमताख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते त एवोपसर्जनीकृतविषमताख्यधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते” इति स्याद्वादमञ्जर्याम् ।
अत्र समताधर्माः सामान्या विषमताधर्माश्च विशेषास्ते च घटापेक्षया पटेऽनन्ताः, पटापेक्षया च घटेऽनन्ताः। एवं प्रतिपदार्थमन्योन्यं द्विकादिसंयोगैश्चानन्ता भाव्याः। तद्यथा-अनन्तपुद्गलनिष्पन्नत्वकालादिपञ्चकहेतुकत्वादिहेतुसूचकधर्मेद्रव्यत्वमूर्तस्वरूपादिमत्त्वादिसत्तासूचकधर्मविवक्षितेप्सितार्थसाधकत्वस्वस्वसाध्यकार्येच्छुकजनमोहजनकत्वादिकार्यसूचकधर्मैश्च घटः पटसमान एवेत्यतो घटे पटसामान्यानि, पटे च घटसामान्यान्यमन्तानि। तथा मृत्पिण्डचक्रचीवरकुलालजन्यत्वादिकारणसूचक