________________
श्री जिनेन्द्रो विजयतेतराम्
महोपाध्याय-श्रीधर्मसागरगणिवरविरचिता स्वोपज्ञवृत्तिसमलङ्कृता
श्री महावीर विज्ञप्ति द्वात्रिंशिका ।
प्रणम्य परमानन्द - कन्दं शक्राचितक्रमं, श्रीमद्वीरजिनाधीशं विघ्नौघेभमृगाधिपम् ॥ १ ॥
श्रीमद्विजयदानाह्व,
नत्वा सूरिनतक्रमं
स्वोपज्ञां विवृणोमि श्रीवीरद्वात्रिंशिकामहम् ॥२॥ युग्मम् अथ श्रीमहावीरविज्ञप्तिद्वात्रिंशिकां चिकिषु निर्विघ्नसमाकामो मंगलार्थं विज्ञाप्यस्यैवाहंतो नमस्कृतिमाह - श्रीमत्स्व गिंजनाचितक्रमयुगं संक्रान्तविश्वत्रयं, विज्ञानं विलसद्वचः प्रतिवचःस्याद्वादमुद्रांकितम् । बिभ्राणं बत बाधवन्ध्यवचनं चापायवन्ध्य स्थिति, श्रीमद्वीर जिनेश्वर ! स्तुतिपथं नत्वा नये त्वामहम् ॥ १ ॥ व्याख्या - हे श्रीमद्वीरजिनेश्वर ! बतेति कोमलामन्त्रणे । त्वां नत्वाहं स्तुतिपथं नये इत्यन्वयः । त्वां किंलक्षणं ? श्रीमत्स्वर्गजनाचितक्रमयुगं । श्रीमत्स्वर्गिजनो-महर्द्धिकशक्रादिसुरवर्गस्तेनाचितं -पूजितं, क्रमयुगं - पादयुग्मं यस्य स तं । अनेन पूजातिशयो दर्शितः । त्वां किंचक्राणं ? बिभ्राणं दधानं किं ? विज्ञानं
.