________________
इत्थमनेन मुनिवरेण गुणवद्वहुमानाद् गुणवैभव: संप्रातः । क्रमेण गुरुगुणामृतपानेन-संयमवल्ली पुष्टीकृता ज्ञान-ध्याने प्रगतीकृता योग्यता विकासीकृता गणिपदपंन्यासपदा-ऽऽचार्यपदप्राप्तिपूर्वकं सूरिमंत्र पंचपीठसमाराधनं कृतम् । अनेके साधुगणाः शास्त्राभ्यासनिरताः कृताः ।
किं बहुना ? यावन्तो लाभा लब्धव्याः ते सर्वे अनेन मुनिवरेण लब्धाः ।
अयं निर्देशः पूर्वकालीनापेक्षः, वर्तमानकाले तु अयं मुनिवरोऽस्माकं पंचदश-शिष्यगणानां योगक्षेमकारिणः परमवात्सल्यमूर्तयः संयमैकलक्षिणः प्रातःस्मरणीयाः पूज्यपादा आचार्य भगवंतः श्रीमद्विजय जगच्चंद्रसूरीश्वराः ।
एतद् ग्रंथचतुष्टयं यावच्चन्द्रदिवाकरौ विजयेते तावद् सतां
शास्त्राभ्यासकरणे दीपकसमानप्रकाशप्रदायि भवतात् । इति शम् ।
- गुरुदेव प्रसादेन-ज्ञान-ध्यान
संयम प्रगति कामुको
पू.आ.श्री भुवनभानुसूरि स्मृतिमंदिरे पंकज जैन संघ, पालडी, अमदावाद भा.व. १० रविपुष्ययोगे
विजयाऽभयचंद्रसूरिः