________________
प्रावकथनम
ऐन्द्रश्रीसुखाथिभिः शुभज्ञान-ध्यान-परायणैर्भवितव्यमिति शास्त्रोक्त-वचनानुसारेण तातपादै-गुरुप्रदत्त-सिद्धांतमहोदधिबिरुदसफलीकरणप्रवीणैः पूज्याचार्यभगवद्भिः प्रेमसूरीश्वरैः स्वनिश्रावर्तिसाधुवृन्द-योगक्षेमकरणतत्परैः कर्मसाहित्यसर्जने-ऽनेके साधवो व्यापारिताः ।
. . तेषां च साधूनां मध्ये मुनिराजश्री जमच्चन्द्र विजयो न्यायशास्त्रदक्षो तर्कनिपुणोऽभवत् ।
येन परम-गुरुदेवानां भावनामनुसृत्य स्थितिबंध-विषयककर्मसाहित्यसर्जनं षष्ठिसहस्रश्लोकप्रमाणं कृतं । एवं साऽवचूरिकं 'द्रव्यप्रमाणप्रकरणं', वृत्तियुतं 'क्षेत्रस्पर्शनाप्रकरण'श्चापि-विरचितं ।
. अत्रान्तरे स्वकीय-गुरुदेवाः स्वनामधन्य-न्यायविशारदपूज्याचार्यदेव-श्रीमद्विजय भुवनभानुसूरिवर-प्रथमशिष्य-लघुबन्धुसहदीक्षित-पंन्यासप्रवरश्री पद्मविजय-गणिवरा दिवंगताः । ततस्तेषां गुरुदेवानां गुणस्मरणार्थं 'गुरु गुण सौरभं चतुस्त्रिंशत्कं' संदृब्धम् ।
एवं कर्मसाहित्यरचना-तत्परे मुनिजगच्चन्द्रविजयादि-मुनिवृन्दे सति
पूज्य परमाराध्यपादाः प्रेमसूरीश्वरा दिवंगतास्तेषां स्वर्गगमनानंतरं परमाघातानुभविता मुनिश्री जगच्चंद्र विजय उद्विग्नमनाः कस्मिन्नपि कार्ये चित्तसंधानं कर्तुमशक्नुवन् रात्रिंदिवं परमगुरुदेव-गुणस्मरणैकरतो जातः । ते च परमगुरुदेवगुणाः ग्रंथस्था कृताः । अर्थात् (प्रेमसूरीश्वर रासः) 'गुरु गुण अमृतवेली' विरचिता ।