________________
८२
भद्रकरोदयाख्यव्याख्याविभूषिते कृत्यत्वासम्पत्तेश्चेति धर्मसंन्यासमाप्य वरं सर्वे धर्मास्त्यज्यन्ताम्, गुरुस्त्वात्मज्ञानाऽवधि सभक्ति सेवनीय एव । अनन्तरं तु कृतकृत्यतया तत्त्यागः सहजत एवेत्यन्यदेतदिति भावः ॥ ५ ॥
तदेवं गुरुत्यागमुक्या गुरुत्वलाभार्थ सेवनीयानां ज्ञानाचारादीनां कदा त्याग इति शिष्यमनस्युन्मिषन्तीं जिज्ञासामुन्नीय समाधत्ते
ज्ञानाऽऽचारादयोऽपीष्टाः शुद्धस्वस्वपदावधि । निर्विकल्पे पुनस्त्यागे न विकल्पो न च क्रिया ॥६॥
ज्ञानाचारादय इति । ज्ञानाचारादयः-ज्ञानस्य ज्ञानलाभोपयुक्तत्वात्तत्सम्बन्धी य आचारो ज्ञानग्रहणगुरुशुश्रूषादिः, स आदि र्येषां ते तादृशाः ज्ञानदर्शनचारित्रतपोवीर्याचाराः, अपिना पूर्वोक्त गुर्वादिसमुच्चयः । शुद्धस्वस्वपदावधि-शुद्धं शुद्धात्म. स्वभावभूतत्वान्निरुपाधिकं यत्स्वस्वं प्रतिस्वं पदं स्थानम् , स्वरूपमित्यर्थः । तदवधि तत्माप्तिं यावदेव । तत्र ज्ञानाचारस्य केवलज्ञानं दर्शनाचारस्य केवलदर्शनं ( क्षायिकसम्यक्त्वम् ) चारित्राचारस्य क्षायिकं यथाख्यात चारित्रं तपआचारस्य परमं शुक्लध्यानं वीर्याचारस्य च सर्वथा-वीर्यशुद्धिरूपमकरणवीर्य शुद्ध पदमिति बोध्यम् । विशेष जिज्ञासुभिरागमोऽवलोकनीयः । इष्टाःसेवनीयाः, तादृशपदलामे तु कृतकृत्यत्वान्निष्प्रयोजनवादेतेषां त्यागो विधेयः । अत्रैव विशेषान्तरमाह-पुनरिति त्वथें । स च मेदो विशेषश्च । तदाह-निर्विकल्पे-इदं त्याज्यमित्येवमादि