SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे त्यागाऽष्टकम् . विकल्पशून्यतादशायां स्वभावादेव सर्वत्याग इति ताशे विक: स्परहिते, स्वाभाविके इति यावत् । त्यागे-त्यागदशायाम् , यदा तु निर्विकल्पस्त्यागः सिद्धो भवति, तदेत्यर्थः। न-नैव, विकल्प:त्यागग्रहणादिसङ्कल्पः । चो हेतो, यतो न विकल्पोऽतः, न-नैव, क्रिया:-ज्ञानाचारादिरूपाः प्रवृत्तयः । प्रवृत्तीनां सङ्कल्पप्रभवस्वात्कारणाऽभावात्तत्कार्यरूपायाः क्रियायाः सुतरां स्वत एव निवृत्तेः । एवञ्चाऽऽत्मज्ञानेऽपि सर्वाः क्रियाः शुद्धस्वस्वपदाप्ति यावदासेवनीया एव, तथैव गुणवृद्धया शुद्धस्वस्वपदलाभात् । अत एव सविकसदशायां शुद्धस्वस्वपदमाचारमर्यादा । निर्विकल्पदशायां तु न काऽपि मर्यादा, विकल्पाऽभावादेव क्रियानिवृत्तेः । नहि मर्यादा विकल्पाऽभावेऽपि क्रियां निवर्तयेत् । अतो यदैव निर्विकल्पस्त्यागः प्राप्यते, तदैव कियानिवृत्तिरिति स एव क्रियानिवृत्तिमर्यादा। यदुक्तम्-" नैव तस्य कृतेनाऽर्थो नाडकृतेनेह कश्चने "ति हृदयम् ॥ ६ ॥. ___तदेवं त्यागक्रमेण धर्मसंन्यासतो गुणवृद्धयाऽऽत्मनः स्वस्वरूपमात्रेणाऽवस्थानात्मकं योगसंन्यासरूपं चरमं त्यागं शिष्यप्रतिबोधाय न्यूनतापरिहाराय चाऽऽह योगसंन्यासतस्त्यागी योगानप्यखिलांस्त्यजेत् । इत्येवं निर्गुणं ब्रह्म परोक्तमुपपद्यते ॥७॥ योगेति । त्यागी-उक्तप्रकारेण धर्मसंन्यासेन त्यक्तक्षायोपशमिकधर्मो मुनिः, योगरांन्यामतः-योगसंन्याससामर्थ्य धर्मसं.
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy