________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
म्यासेन कृत्वा गुणवृद्ध्या प्राप्य, अखिलान् सकलान्, न तुं कतिपयानेव, योगान् कायवाङ्मनोव्यापाररूपान् ज्ञानाचारादीन्, अपिना क्षायोपशमिकधर्मसमुच्चयः । त्यजेत् - निरुन्ध्यात् । केवलज्ञानेन कृत्वा ह्यचिन्त्यवीर्यशक्त्या भवोपग्राहि कर्मक्षयरूपाssयोज्य करणादूर्ध्वं शैलेशीदशायां योगसंन्यासो लभ्यते । तत्र चकायादिसर्वयोगानां रोधादयोगाख्यः सर्वसंन्यासरूपः सर्वोत्कृष्टो योगः प्राप्यते । एष हि निर्विकल्प स्त्यागः । इतः प्रागपि तथाविधाऽध्यवसायवशात्स प्राप्य इतित्वन्यदेतत् । तदेवं सर्वोपाधिकगुणरोधादात्मनि निर्गुणत्वमाविर्भवति, स्वस्वरूपमात्रेण शुद्धसच्चिदानन्दरूपेण च तदानीमात्माऽवभासते । एवं च शैलेशीदशायां यदपाधिकगुणराहित्यमात्मनस्त देवाऽऽदाय निर्गुणं ब्रह्मेति परतीर्थिकप्रवादः कथञ्चिदुपपद्यते । परमार्थतस्तु निर्गुणत्वमात्मनि न सम्भवत्येव । तस्य शुद्धसच्चिदानन्दगुणात्मकत्वाचादृशगुणाभावे गुणिनोऽप्यभावाऽऽपतेरित्येतत्सर्वं मनसि कृत्वाsssइति-अनेन कायादियोगत्यागेन हेतुना, एवम् – उक्तप्रकारेण, परोक्तम्- परतीर्थिकैः प्रतिपादितम् ब्रह्म - शुद्धसच्चिदानन्दमय आत्मा, निर्गुणम्-गुणरहितम्, उपपद्यते युक्तिमद्भवति । निर्गुणपदे हि गुणपदेन कायाद्योपाधिकयोग एव गृह्यते, योगसंन्यासेन तत्त्यागादेव च ब्रह्मणो निर्गुणत्वम्, न तु स्वभावभूतचिन्मयादित्वत्यागात् । तथा सति हि गुणमात्राभावे गुणिनः सत्त्वे प्रमाणाShiवान्निर्गुणशब्दस्यैव निर्गुणत्वाऽऽपत्तेः, सत्यर्थे हि शब्दप्रयोग इति हृदयम् ॥ ७ ॥
CO
८४