________________
ज्ञानसारे त्यागाष्टकम्
ननु निर्विकल्पे आत्मनि कुतो गुणसम्भवः, गुणानां विकस्पेन विना भावाऽप्रसिद्धेरिति शिष्यजिज्ञासां समाधिरसुरस्याग फलमुपदर्शयन्नुपसंहरति
वस्तुतस्तु गुणैः पूर्णमनन्तै र्भासते स्वतः ।
रूपं त्यक्तात्मनः साधो निरभ्रस्य विधोरित्र ॥ ८ ॥
८१
इति महामहोपाध्याय श्री यशोविजयोपाध्यायविरचिते ज्ञानसारे त्यागाष्टकं नामाऽष्टममष्टकम् ॥ ८ ॥
वस्तुतस्त्विति । तुः परोक्तं निर्गुणं ब्रह्माऽपेक्ष्य विशेषं द्योतयति । औपाधिकगुणशून्यतयैव निर्गुणः, वस्तुतः - परमार्थतस्तु सगुण एवं सदा भवत्यात्मा, न तु परमार्थतः कदापि निर्गुण इति तात्पर्यम् । तथाहि - त्यक्तात्मनः - त्यक्तं त्यागः, नपुंसके भावे कः । तदात्मक आत्मा स्वरूपं यस्य तस्य तादृशस्य सर्वसंन्यासपरितस्याSSत्मनः । योगनिरोधस्वभावत्वाद्योगयोगिभावाऽभावादात्मन इत्थमुक्तिरिति ध्येयम् । योगसंन्यासवत इति यावत् । सर्वावरणशून्यस्येति तु परमार्थः । साधोः - साधकस्य, रूपम् - स्वरूपम्, अनन्तैः - अन्तरहितैः, नत्वेकेन द्वाभ्यां बहुभिर्वा । गुणैः - ज्ञानादिगुणैः पूर्णम् - सम्भृतम्, तन्मयमित्यर्थः । आत्मनस्तत्स्वभावत्वात् । एवं च दूरे निर्गुणत्ववार्त्ता, प्रत्युताऽयमात्माऽनन्तगुणपूर्ण इत्याकूतम् । ननु ज्ञानाद्यश्मनस्तस्य तादृशस्य कथं भासनम्, ज्ञानसाधनाभावादिति चेत्तत्राह - निरभ्रस्य - मेघाघावरणरहितस्य, " अभ्रं मेषो वारिवाद " इत्यमरः । विधोः- चन्द्रस्येव यथा
""