SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते निरभ्रश्चन्द्रस्तथेत्यर्थः । “ चन्द्र इन्दुः कुमुदबान्धवः । विधुः सुधांशुः शुभ्रांशुरि" त्यमरः । स्वतः-स्वयमेव, भासते-प्रकाशते । आत्मा हि स्वप्रकाश एव, नहि तत्र साधनान्तरमपेक्ष्यते । आवरणभावात्तदवबोधो नेति त्वन्यदेतत् । एवञ्च यथा मेघाद्यावरणे सति चन्द्रो न प्रकाशते, तदपगमे तु साधनान्तरं विनैव स प्रकाशात्मनैव स्वत एव प्रकाशते, तस्य प्रकाशात्मकत्वात् । तथा त्यागेन सर्वावरणविलये चिदाद्यात्माऽऽत्मा स्वतः प्रकाशते, तस्य चिदाद्यात्मकत्वादिति भावः । एवञ्च तादृशसच्चिदानन्दमय. स्वप्रकाशदशालाभाय शमं साधयित्वा क्रमशम्त्यागं साधयन् सर्वसंन्यासं साधयेदिति हृदयम् ॥ ८॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोदयाख्यायां व्याख्यायां त्यागाऽष्टकं नामाऽष्टममष्टकम् ॥८॥ ॥ क्रियाऽष्टकम् ॥ ____ ज्ञानिनो धर्मसंन्यासमात्रेण न कृतकृत्यता, अपि तु ज्ञानक्रियाभ्यां मोक्ष इति ज्ञानिनोऽपि क्रियाऽवश्यमपेक्षिता। नाऽन्यथोक्तत्यागादिसम्भव इति ज्ञाने सति क्रियासु प्रमादो नैव इति शिष्यं प्रबोधयितुं क्रियावानेव ज्ञानी कृतकृत्य इत्याह ज्ञानी क्रियापरः शान्तो माविताऽऽत्मा जितेन्द्रियः । स्वयं वीर्णो भवाम्भोधेः परांस्तारयितुं क्षमः ॥१॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy