________________
ज्ञानसारे क्रियाष्टकम्
ज्ञानीति । शान्तः - शमाऽष्टको तोपशमगुणविशिष्टः समतामति विषय विमुखश्चेत्यर्थः । तत्र हेतुगर्भ विशेषणमाह- भावि तात्मा - भावितः सम्यक्त्वादिशुभाध्यवसायादिवासित आत्मा यस्य स तादृशः, शुभाध्यवसायपरिणत इत्यर्थः । आत्मनः शुभविचारपरतयैवोपशमसिद्धिरिति भावः । एतत्सर्वं चेन्द्रिय वृत्त्य निरोधे हस्तिस्नानमिवेत्यत आह- जितेन्द्रिय:- स्ववशेन्द्रियः, निरुद्धेन्द्रिय वृत्तिरित्यर्थः । अन्यथोपशमो लब्धोऽप्यकिञ्चिकरः स्यादात्मनश्चे न्द्रियाधीनतया कालुष्यं स्यादिति भावना वाङ्मात्रमेव स्यादिति सर्वमेव कृतं शमादिकं निष्फलं स्यात् । यदुक्तम् - " न. स्ति बुद्धिरयुक्तस्य न चाऽयुक्तस्य भावना । न चाऽभावयतः शान्तिरशान्तस्य कुतः सुखम् । तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहीह्येनं ज्ञानविज्ञाननाशनमि "ति भावः । एवमेतावता बहिर्विषयेषु सर्वथा व्यासङ्गराहित्यं प्रतिपादितम् । उक्तगुणत्रयविशिष्टस्यैव सर्वथा विषयवैराग्याऽधिकृतत्वादिति बोध्यम् । तदे तादृशः, ज्ञानी - सम्यग्ज्ञानवान् मुनिः । क्रियापरः- क्रिया आवश्यकादिकाः, तत्परः कायेन मनसा वाचा च तादृश क्रियांssराधने विहितप्रयत्नः सन् । स्वयम् - आत्मना, भवाऽम्भोधेः-भवः संसारोऽनेक जन्ममरणाद्यावर्त्त बाल्य जरादितरङ्गाऽने कव्य ध्यादिजलजन्तुकर्म जलराशि सम्पन्नत्वादम्भोधिः सागर इव तस्मात् तीर्णः -- निष्क्रान्तः परं पारं प्राप्त इत्यर्थः । भवतीति शेषः । अत एवोक्तं " ज्ञानक्रियाभ्यां मोक्ष " इति । तथा, परान् भवाम्भोधिपतितान् स्वभिन्नान् भवदुःखार्त्तान् प्राणिनः, तारयितुम् - ज्ञान क्रियाऽनुष्ठानो-'
"
فه
•
·