________________
८८
भद्रङ्करोदयाख्यव्याख्याविभूषिते पदेशादिना भवाम्भोधेः परंपारं प्रापयितुम् , क्षमा-समर्थो योग्यश्च । भवतीति शेषः । वचनाऽनुकूलक्रियावत एव वचनमुपादेयम् । अन्यथा तु परोपदेशे पाण्डित्यबुद्ध्या लोकानां तदुक्केष्वनादरात्तैनिक्रिययोरनाराधनात्तेषां तारणं न स्यादेवेति लोकै ग्राह्यवचनः स्यामित्येवं लोकोपकारः स्वस्य च लाभ इति द्वयोः कर योर्मोदक ज्ञानिनः क्रियापरस्येतिभावः ॥ १ ॥
ननु मा भूत्परतारणम् , स्वयं तीर्ण इत्येतावदेव पर्याप्तमिति चेन्न। क्रियां विना स्वयमपि तरणाऽसम्भवादिति शिष्यं प्रबोधयतिक्रियाविरहितं हन्त ? ज्ञानमात्र मनर्थकम् । गति विना पथज्ञोऽपि नाऽऽप्नोति पुरमीप्सितम् ।। २ ॥
क्रियेति । क्रियाविरहितम्-क्रियया शास्त्रोपदिष्टमोक्षाऽनुगुणाऽऽवश्यकादिक्रियया विरहितं विनाकृतम् , क्रियासाहचर्यशून्यमित्यर्थः । अतएव, ज्ञानमात्रम्-ज्ञानमेव ज्ञानमात्रम् , गुर्वायधिगतमेकं नवरमात्मतत्त्वबोधकं सम्यग्ज्ञानम् , हन्त-निश्चयेन, अनर्थकम्-न अर्थो यतस्तादृशम् , प्रयोजनसम्पादनाऽसमर्थम् , न मुक्तिपदमित्यर्थः । तत्र दृष्टान्तमाह-पथज्ञः-पथं मार्ग जानातीति सः, तादृशो मार्गज्ञोऽपि, अपिना-मार्गज्ञानशून्यस्य तु कथैव केति सूच्यते । “ वाटः पथश्च मार्गश्चे"त्यमरः । गतिम्पादविहरणात्मकक्रियाम् , विना-ऋते, ईप्सितम्-इच्छाविषयम् , गन्तुमिष्टमित्यर्थः । पुरम्-उपलक्षणत्वान्नगरप्रामादिकं गन्तव्यस्थानम् । “ पू: स्त्री पुरी नगर्यो वे"त्यमरः । न-नैव, आप्नोति -