________________
ज्ञानसारे क्रियाष्टकम्
८९.
प्राप्नोति । एवञ्च मार्गज्ञस्याऽपि यथा गतिं क्रियां बिना न गन्तव्य देशप्राप्तिः, तथा ज्ञानिनोऽपि क्रियां विना न मुक्तयादीष्ट - प्राप्तिः । ज्ञानेन हि प्रापयितव्यायां मुक्तौ किया द्वारम् । किययैवात्मनि मुक्त्यनुगुणगुणाधानात् । यदुक्तम् - " ज्ञानं भारः क्रियां विनेति । यत्र क्रियां विना स्वस्यैव तारणमसम्भवम्, तत्र पर - तारणस्य का वार्ता ! । न हि स्वयमसिद्धः परान् साधयितुं - क्षमो भवतीति भावः ॥ २ ॥
ननु ज्ञानं स्वयमेवाSSत्मतत्त्वप्रकाशने समर्थमिति तस्य कृतं क्रियासाहचर्येणेति शिष्य व्यामोहं निराकुर्वन्नाह -
स्वाsनुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते । प्रदीपः स्वप्रकाशोऽपि तैलपूर्व्यादिकं यथा ॥ ३ ॥
स्वेति । काले- गुरुपर्युपासनव्रतानुष्ठानादिना ज्ञानलाभानन्तरम्, ज्ञानपूर्ण :- ज्ञानेन सम्यग्ज्ञानेन कृत्वा पूर्णः समग्रः, अविकलसम्यग्ज्ञानवानित्यर्थः । अपिनाऽपूर्णज्ञानस्य तु कथैव केति सूच्यते । स्वानुकूलाम्- स्वस्थ ज्ञानपूर्णस्याऽनुकूलाऽनुरूपा पावनिवारण गुणोत्कर्षणाऽधिकृतत्वादनुगुणा च तां तादृशीम्, स्वयोग्यां स्वपोषिकां चेत्यर्थः । क्रियाम् - आवश्यकादिक्रियाम, अपेक्षते - कर्त्तव्यत्वेनाऽऽकाङ्क्षति, अन्यथा हि निष्क्रियस्य गुणोत्कर्षास - सम्भवात्कदाचित्पात सम्भावनाच्च । एवञ्च - स्तावदवश्यं क्रियावता भाव्यं ज्ञानिनाऽपीति हृदयम् । ज्ञानपूर्णोऽपि काले स्वानुकूला मित्यादिप्रकारेणाऽन्वयस्तु न रोचते । ज्ञानपूर्णस्य
यावन्नाऽऽत्मसाक्षात्कार