________________
भद्रकरोदयाख्यव्याख्याविभूषिते
काले क्रियाsपेक्षिता न सर्वदेत्यनिष्टार्थस्य सम्भावनादिति विचारणीयम् । दृष्टान्तमाह-यथेति दृष्टान्तोपनिदर्शने । प्रदीपः-स्वनामख्यातः प्रकाशसाधनं दीपः, स्वप्रकाशः - स्वेनैव साधनान्तर नैरपेक्ष्येण प्रकाशते प्रकाशात्मना वर्त्तते, परं प्रकाशयति च, तथा स्वाभाव्यादिति सः स्वयमेव प्रकाशमानोऽत एव परप्रकाशकोsपि सन् । दीपः स्वोत्पत्तावेव साधनमपेक्षते, न तु प्रकाशने, तद्धि तस्य सहजः स्वभावः, नहि कस्यचित्स्वभावः साधनान्तरमपेक्षते । अन्यथा स स्वभाव एव न स्यात् । अकृत्रिमधर्मस्यैव सहजस्वभावत्वात् । ज्ञानेऽप्येतद्विशेषणम्, ज्ञानपूर्णो हि स्वप्रकाश एव, ज्ञानेनैव स्वस्य प्रकाशनादिति बोध्यम् । अपिना परप्रकाश्यस्य तु प्रकाशार्थं क्रियां विना नैव निर्वाह इति सूच्यते । तैलपूर्त्यादिकम् - तैलस्य स्नेहस्य या पूर्तिर्दीपाघारशरावे प्रानिक्षिप्ततैलव्ययाऽनन्तरं पुनः प्रक्षेपः, आदिना दशापूर्त्यादिर्गृह्यते । तैलवदिकमिति पाठे तु वर्तिर्दशा, आदिना निर्वाताssवृतगृहादिः । तैलपूर्तिरादिर्यस्य ततादृशं कर्मेति समासः, अपेक्षते इति सम्बध्यते । अन्यथा तैलाद्यभावात्स्वप्रकाशोऽपि दीपो विध्यातः स्यात्, स्थिति कारणनाशे कार्यनाशाऽवश्यंभावात् । तथा स्वस्वभावस्थत्वात्स्वप्रकाशोप्यावश्यकादिक्रियामवश्यं
साधनाभावात्, ज्ञानपूर्ण :
कुर्यात् । ज्ञानं हि क्रिययोपजीवति, ततः क्रियाभावे ज्ञानमात्रं न पर्याप्तमिति तात्पर्यम् ॥ ३ ॥
क्रिया बाह्यप्रवृत्तिरिति सा ज्ञानिनामनुपादेया ध्यानाद्यन्तःक्रिययैव तेषां क्रियाकाङ्क्षापूरणादिति शिष्यशङ्कां समाधित्सुर्बाह्य
9