SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे क्रियाष्टकम् क्रियां विना न कृतकृत्यत्वसम्भव इत्याह बाह्यभावं पुरस्कृत्य ये क्रियां व्यवहारतः । वदने कवलक्षेपं विना ते तृप्तिकाङ्क्षिणः ॥ ४ ॥ - " बाह्यभावमिति । ये यत्प्रकारा जनाः, बाह्यभावम् - बहिः शरीरादिसाध्यत्वादात्मभिन्ने भवो बाह्यः सचाऽसौ भावः परिणाम आवश्यादिक्रियारूपश्च तम् आवश्यकादिका क्रिया बहिःसाधनसाध्येत्यतो ज्ञानिनोऽनुपादेयेत्येवमित्यर्थः । पुरस्कृत्य - अग्रे कृत्वा, युक्तिरूपेणोपादाय समर्थ्य वा, व्यवहारतः - व्यवहारो विवादस्तमाश्रित्येति यब्लो पे पञ्चमी । ज्ञानिनो ह्यान्तरेण भावेन प्रयोजनं न बाह्येन भावेन शैक्षानुरूपेण । बाह्यभावप्रयोजनस्य ज्ञानस्य सम्पन्नस्वादित्येवं विवादमाश्रित्येति तात्पर्यम् । "व्यवहारो विवादः स्यादि" ति हैमः । क्रियाम् - आवश्यकादिकां क्रियाम्, विना-ऋते, तृप्तिकाक्षिणः - तृप्तिं श्लेषाऽनुरोधाल्लक्षणया शाश्वताऽखण्ड सुखं ज्ञानफलं काङ्क्षन्त इत्येवं शीलाः, ज्ञानेन परमसुख लिप्सव इत्यर्थः । ते - तादृशा जनाः, वदने- मुखे, "वक्त्राssस्ये वदनं तुण्डमाननं लपनं मुखमि " त्यमरः । कवलक्षेपम् - कवलस्य भक्ष्यस्याऽन्नादेप्रसस्य क्षेपो न्यासस्तम्, कवलभक्षणमित्यर्थः । " ग्रासो गुडेरकः पिण्डो गडोल: कवको गुडः । गण्डोलः कवल " इति हैमः । विना, तृप्तिकाङ्क्षिणः- क्षुदुपशमजन्यसुख विशेषेच्छवः । " तृप्तिः सौहित्यमाघ्राणमि " ति हैम: । यथा कवलभक्षणरूपं बाह्यभावं विना न क्षुधितस्य ज्ञानेन कवलचिन्तनेऽपि क्षुदुपशम इति न "
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy