SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते तस्य तृप्तिः, तथा विवादबलातक्रियाया बाह्यभावत्वं समर्थ्य तत्त्यागे न ज्ञानिनो ध्यानादिमात्रेण परमसुखप्राप्तिः, बाह्यक्रियां विना ध्यानाधन्तःक्रियाया अप्यसाध्यत्वात् । तथा च क्षुन्निवृत्तिपूर्वकमनस्तृप्तये बाघमावस्य कवलस्याऽपेक्षावत्स्वाभाविकसुखार्थ बाह्यभावस्य क्रियाया अप्यपेक्षा । नहि फलं विवादेन साध्यम् , किन्तु साधनेनेति गूढाकूतम् ॥ १॥ ननु क्रियां विना न निर्वाहो ज्ञानिनोऽपीति मुहुर्मुहुरुच्यते, न पुनस्तस्य क्रिया कथं कृत्वोपयोगिनीति प्रतिपाद्यते इति शिष्याऽप्रीति सम्भाव्य क्रियोपयोगमेव प्रपञ्चयन्नाह-- गुणवद्बहुमानादे नित्यस्मृत्या च सत्क्रिया। जातं न पातयेद्भावमजातं जनयेदपि ॥ ५ ॥ गुणवदिति । सत्क्रिया-सती शुभपरिणामत्वानिवद्या या क्रियाऽऽवश्यकादिका, सा । गुणवदहुमानादेः-गुणाः सम्यग्दशनादयस्तद्वतां प्रशस्तगुणसमग्राणां यो बहुमानो मान्यबुद्ध्या सादरसप्रेमसत्कारशुश्रूषादयः, आदिना पापजुगुप्साऽतिचाराऽऽलोचनादेवगुरुभक्तिप्रभृतयः, तस्माद्धेतोः, नित्यस्मृत्या-नित्यमनिशमहरहर्वा या स्मृति गृहीतव्रतस्मरणम् , तया हेतुना, उपलक्षणत्वान्नवीनप्रत्याख्यानसामायिकादिना च, चः. समुच्चये । जातम्-उत्पन्नमाविर्भूतं वा, भावम्-पर्यायं सम्यग्दर्शनादिरूपम् , न-नैव, पातयेत्-च्यावयेत् , प्रतिपातं प्रयोजयेत् , पातं हास प्रतिरुन्ध्यादिति यावत् । तथा, अजातम्-अनुत्पन्नं धर्मध्यानादिकं
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy