________________
ज्ञानसारे क्रियाऽष्टकम्
भावम्, जनयेत-उत्पादयेत् । अपिश्चाऽर्थे । शुभक्रिया हि क्रियमाणा गुणवद्बहुमानादिरूपा गृहीतवतस्मृतिनवीनप्रत्याख्यानसामाथिकादिरूपैव च भवति । अत एव च तादृशक्रियाबशादुत्पन्नो भावः स्थिरो भवति, प्रमादश्च परिहीयते । क्रियावशादुत्तरोत्तरगुणवृद्ध्या शुभोत्कृष्टभावान्तरपातिरपि भवति । तस्माज्ज्ञानिनाऽपि क्रिया विधेयैव, न तु विवादवलादेया । नहि विवादो जातं भावं न पातयेदजातं जनयेचाक्रियाया एव तत्राऽधिकृतत्वात् । क्रियासाह. चयं विना ज्ञानमात्रस्योक्तयुक्त्याऽकिश्चित्करत्वादिति तात्पर्यम् । अत्र नित्यस्मृत्यादिना प्रमादपरिवर्जनं ततश्च गृहीतव्रतसंरक्षणादिना जातभावपातनिरोधः, गुणवद्बहुमानादिना तत्सम्पर्कानवनवशुभभावप्राप्तिरिति तात्पर्य प्रतिभाति, पृथगुपादानात् । वस्तुतस्तु सर्वैव क्रिया पातनिरोधिका गुणवर्धिका च । पृथक्कथनं चोपलक्षणत्वादादिना च सर्वशुभक्रियासमहायैव । शास्त्रे पात. वृद्धयोः क्रियाणां विवेकेनाऽप्रतिपादनादिति विभाक्नीयम् ॥ ५ ॥
क्रियासु श्रद्धाऽतिशयो यथा स्यादिति क्रिया न केवलं पातनिरोधभावोत्पादप्रयोजिका, अपि तु पतितस्याऽपि भाववृद्धिहेतु. रिति शिष्यं प्रबोधयन्नाह
क्षायोपशमिके भावे या क्रिया क्रियते तया। पतितस्याऽपि तद्भावप्रवृद्धि र्जायते पुनः ॥६॥
क्षायोपशमिक इति । क्षयोपशमिके-क्षय उदबावलिकाप्रविष्टानां कर्मणामनुभवादिना परिशाटा, उपशम उदयावलिका.