________________
भद्रकरोदयाख्यव्याख्याविभूषिते प्रविष्टानां तदन्येषां च कर्मणां विपाकतो निरोधः, ताभ्यां निवृत्तः क्षायोपशमः परिणामविशेषः, तत्र भवः क्षायोपशमिक आत्मपरिणामविशेषः, तस्मिन् तद्रूपे, भावे-पर्याये, सतीति शेषः । कर्मणां क्षयोपशमयोः सतो विशिष्ट सम्यक्त्वादिपरिणामपरिणते आत्मनि सतीत्यर्थः । या-याहशी, क्रिया-आवश्यकादिका शुभक्रिया, तस्या एव भाववृद्ध्यादावधिकृतत्वादिति बोध्यम् । क्रियतेअनुष्ठीयते, क्षायोपशमिकभावस्थेन जीवेनेत्यर्थवशालभ्यते । तयातादृश्या शुभक्रियया क्षायोपशमिकभावस्थेनाऽऽत्मना क्रियमाणया कृत्वा, पतितस्य-कथञ्चित्प्रमादादिना पूर्वलब्धाद्गुणाच्युतस्याऽपि, पुन:-भूयोऽपि, तद्भावप्रवृद्धिः-तस्य पूर्व प्राप्तस्य भावस्य सम्यक्त्वादिगुणपरिणामस्य प्रकर्षेण वृद्धिरुत्कर्षः, जायतेनिष्पद्यते । न केवलं तद्भावलाम एव, अपि तु ततोऽप्युत्कर्षो जायत इति प्रोपसर्गाऽर्थः । यत्र पतितस्याऽपि भावप्रवृद्धिः, तत्रो. त्तरोत्तरं गुणकक्षामारोहतो भावप्रवृद्धि र्जायत इति किमु वक्तव्यमित्यपिना सूच्यते । एवञ्च क्रिया महाप्रभावा गुणोत्कर्षहेतुश्चेति साऽवश्यं ज्ञानिभिरप्यनुष्ठेयैव न तु हेवेति भावः ॥ ६ ॥
तदेवमेतावता प्रबन्धेनोपपादितं क्रियाया विधेयत्वमुपसंहरन् जिनानामपि क्रिया विधेयवेति शिष्यव्यामोहो मा भूदित्यर्थापत्त्या तेषां न तया प्रयोजनमित्याह. गुणवृद्धयै ततः कुर्याक्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते ॥७॥