SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे क्रियाऽष्टकम् । गुणवृद्धयायिति । तत:-क्रियाया जातभावपातनिरोधाsजातभावोत्पादपतितभावप्रवृद्धिसमर्थत्वाद्धेतोः, गुणवृद्धयै-सभ्यक्वादिगुणवृद्धिनिमित्तम् , यथा क्रमात् क्षायिकभावलाभः स्यात्तदर्थमित्यर्थः । अस्खलनाय-लब्धगुणाऽप्रपातायं, वेति चार्थे, क्रियाम्-आवश्यकादिकां शुभक्रियाम् । कुर्यात्-अनुतिष्ठेत् , विधी सप्तमी बोध्या। ज्ञान्यपीति शेषः । ज्ञानिनोऽपि हि गुणवृद्धे रिष्टत्वा. प्रमादादिना गुणहानिसम्भवाञ्चेति भावः । ननु कोऽपीडशोऽस्ति न वा, यस्य क्रियया न प्रयोजनमितिशिष्यजिज्ञासानिवृत्तये आह-एकम्केवलम् , " एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथे"त्यमरः । जिनानाम्-जयन्ति रागादीनरी निति जिनाः क्षायिकज्ञानादिमन्तो वीतरागास्तेषाम् , आदरार्थे वहुवचनं जिनानां बहुत्वाद्वा । यद्यपि तजिनादयोऽपि प्रसिद्धाः, तथाऽपि तेऽत्र नेष्टाः । तेषां क्षायोपशयिकभावस्थतया संयमस्थानस्य प्रतिपातसम्भवास्क्रियाऽधिकारादित्यवधेयम् , केवलेन जिनपदेन तत्तत्स्थले वीतरागग्रहणस्यैव व्यवहारप्रसिद्धत्वाचेति बोध्यम् । तुः पूर्वस्माद्विशेष भेदे च । तदाह-संयमस्थानम्-संयमपरिणामपर्यायः, अवतिष्ठते-स्थिरोभवति, न प्रतिपततीत्यर्थः । जिनानां संयमपरिणामधारा स्वभावभूतत्वान्निरन्तरं निरवच्छिन्नं च प्रवर्तते। यद्वैकमिति संयमस्थानमित्यस्यैव विशेषणम् , समानप्रकारमिति च तदर्थः । नोपचीयते नचाऽपचीयते इति यावत् । एवञ्च अवतिष्ठत इत्यस्याऽवस्थितो भवतीत्यर्थः। तेषां गुणापचयोपचयहेतुभूतकर्मण एवासम्भवागुणानां पराकाष्ठामितत्वाच । एवञ्च तेषां क्रियया न प्रयोजनम् ,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy