SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते अन्येषां तु तदवश्यमपेक्ष्यत उक्तयुक्तरिति भावः ॥ ७ । ननु यदि क्षायिकभावस्थस्य क्रियया न प्रयोजनं तर्हि ज्ञानान्मुक्तिरित्येवाऽऽयातम्, क्रिया च ज्ञानादिगुणोत्कर्षहेतुरिति मुक्ति प्रत्यन्यथासिद्धम् । एवं च ज्ञानक्रियाभ्यां मोक्ष इति स्वसिद्धान्तो विरुध्यत इति शिष्यविपतिपत्ति निराकरिष्णुः क्रियायाः पारमार्थिकं तत्त्वमुपदर्शयन्नुपसंहरति वचोऽनुष्ठानतोऽसङ्गक्रियासङ्गतिमङ्गति । सेयं ज्ञानक्रियाऽभेदभूमिरानन्दपिच्छिला ॥८॥ इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते . ज्ञानसारे क्रियाऽष्टकं नाम नवममष्टकम् ॥९॥ वच इति । वचोऽनुष्ठानत:-वचस आज्ञारूपस्य वचनस्योपलक्षणत्वात्तत्प्रतिपादितक्रियाया अनुष्ठानतः पालनतः, आराधनत इत्यर्थः । असङ्गक्रियामङ्गतिम्-अविद्यमानः सङ्गो विकल्पसम्पर्को यस्यां तादृशी निर्विकल्पसमाधिरूपा स्वाभाविकी क्रिया, आत्मस्वभावभूतनिर्विकल्पसमाध्यात्मकक्रियेत्यर्थः, तया सह सङ्गतिर्युक्तता ताम् , असङ्गक्रियात्मकाऽऽत्मपरिणतिमित्यर्थः । अङ्गतिप्राप्नोति, प्रयतमानो जन इति शेषः। वचनाऽनुसारिक्रियाऽनुष्ठानारक्रमशोऽसङ्गक्रियाप्राप्तिरिति निष्कृष्टोऽर्थः । सा तादृशी, इयम्सद्यः प्रतिपाद्यमानाऽसङ्गक्रिया, ज्ञानक्रियाऽमेदभूमि:-ज्ञानं च क्रिया च तयोरभेदस्तादात्म्यम् , तस्य भूमिः स्थानम् । इदं ज्ञान. मियं क्रियेत्येवमादिविकल्पाऽभावाद्भेदकाऽभावात्तत्र ज्ञानक्रिययोरक्यं
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy