________________
ज्ञानसारे तृप्त्यऽष्टकम्
जायते । सा च, आनन्दपिच्छिला-आनन्देन स्वाभाविकेन शाश्वताऽऽखण्डरूपेणाऽऽनन्देन कृत्वा पिच्छिला विजिला, रसाईत्यर्थः । आनन्दमयीति यावत् । सैव मोक्षदशेति तात्पर्यम् । " पिच्छिलं तु विजिविलं विजलं च तदि "ति हैमः । एवञ्च ज्ञानक्रिययोरभेदारकथञ्चिज्ज्ञानक्रियाभ्यां मोक्ष इति ज्ञानान्मोक्ष इति च द्वयमप्युपपद्यते । तथा, क्षायिकभावस्थस्य द्रव्यक्रिया निष्प्रयो। जनिका, भावक्रिया तु तत्राऽपि वर्तत एव । सा च विकल्पाऽभावा. ज्ज्ञानतादात्म्यापन्नेत्यन्यदेतदिति क्रिया न कदापि हेया, अपि तु यथाकथञ्चित्सर्वदेवोपादेयैवेति भावः ॥ ८॥ - इति श्रीज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्यासप्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्न्यासश्रीशुभङ्करविजयगणिकतायां भद्रकरोदयाख्यव्याख्यायां क्रियाऽष्टकं नाम नवममष्टकम् ॥९॥
॥ तृप्त्यष्टकम् ॥ ननु शमो ज्ञानं क्रिया चाऽऽराधनीयानीत्युपदिश्यते, न च तैः किं प्रयोजनमित्युच्यते । प्रयोजनमनुद्दिश्य च मन्दोऽपि न प्रवर्तते इति शिष्यजिज्ञासां समाधातुकामस्ततो लभ्यमनुत्तरसुखमित्याह
पीत्वा ज्ञानाऽमृतं भुक्त्वा क्रियासुरलताफलम् । साम्यताम्बूलमासाद्य तृप्तिं याति परां मुनिः ।। १॥ पीत्वेति । मुनि:-शमज्ञानक्रियाराधनदत्तचित्तः साधुः । एतेन