SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्याविभूषिते नह्यमुनिः शमादिसम्पन्नो भवितुमर्हतीति सूच्यते । क्रियासुरलता. फलम्-क्रियाऽऽवश्यकादिक्रियैव पीडापदरागद्वेषादिक्षुन्निवर्तकत्वात्सुरलतायाः कल्पवरल्याः फलम् , तत्, भुक्त्वा-आराधनेन भुक्तानपानादिवत्स्वतादाम्येन परिणमय्य । अत्र फलभक्षणं नामोदराऽधीनीकरणेन फलस्य परिणामादिना स्वतादात्म्यापादनम् , क्रियायाश्च भक्षणं नामाऽऽराधनेनाऽऽत्मतादात्म्यापादनमिति द्वयोआदेऽप्यभेदरूपाऽतिशयोक्तिनिर्वाह्यं क्रियासुरलताफलमिति रूपकम् । भुक्तस्य पानाऽऽवश्यकत्वादाह-ज्ञानाऽमृतम्-ज्ञानं ज्ञानाऽष्टकप्रतिपादितस्वरूपं सम्यग्ज्ञानमेव स्वस्वरूपादिज्ञानतृष्णानिवर्त्तः कत्वादमृतं पीयूषं जलं च, तत् । “ पीयूषममृतं सुधे"ति, “ सलिलं कमलं जलम् । पयः कीलालममृतमि' ति चाऽमरः । पीत्वा-अधि. गमादिनाऽऽत्मसात्कृत्य । यथा जलं गलविलाऽधःकरणादिनाऽऽत्मसास्क्रियते तथा ज्ञानमप्यधिगमादिनाऽऽत्मसास्क्रियत इति जलपानज्ञानपानयो आदेऽप्यभेदाऽव्यवसायरूपाऽतिशयोक्तिजीवितं ज्ञानामृतमितिरूपकम् । भोजनपानाऽनन्तरं मुखशुद्धिचर्वणमिति भोजनतन्त्रमित्यत आह-साम्यताम्बूलम्-साम्यमुपकारिष्वपकारिषु च समताबुद्धिः, रागद्वेषरहिततेति यावत् । तदेव मुख दोषतुल्याऽऽत्मदोषम्तकषायादिनिवारकत्वात्ताम्बूलं सुधादिसंस्कृतं नागवल्लीदलम् , तत् , आस्वाद्य-चर्वयित्वा । अत्र ताम्बूलस्य चर्वणमन्यत् , साम्यस्य च चर्वणं मुखे ताम्बूलमिवाऽऽत्मनि साम्यभावनपिति द्वयोर्भेदेऽप्यभेदाध्यवसायरूपाऽतिशयोक्त्यनुपाणिनं साम्यताम्बूलमितिरूपकम् । ननु ततः किमित्याकाङ्गानिवृत्तये आह-पराम्-सर्वोत्कृष्टत्वादनु.
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy