________________
ज्ञानसारे तृप्त्यऽष्टकम्
तमाम् . शाश्वतिकीमखण्डां चेति यावत् । तृप्तिम्-इच्छानिवृत्तिजन्यं सुखविशेषम्, तृप्तिजन्यं शरीरस्येवाऽऽत्मनः पोषं च, यातिप्राप्नोति । भोजनानन्तरं पानं ततस्ताम्बूलचर्वणमिति नागरवृत्तम् । तथा च क्षुत्तृष्णामुख दोषनिवृत्या मनसस्तृप्तिः शरीरस्य पुष्टिश्च जायत इति प्रसिद्धम् । कल्पवल्लीफलभक्षणज्ञानाऽमृतपानसाम्य. ताम्बूलचर्वणेन च सा परेत्युचितमेव, कार्यगौरवस्य कारणगौरवाऽ. धीनत्वादिति भावः। एतेन परा तृप्तिरेव शमज्ञानक्रियाणां प्रयोजनम् , नचैकेन भक्षणादिना तृप्तिरिति समुदितैरेव तैस्तत्साध्यमिति सूच्यते। यद्यपि भोजनानन्तरं पानमिति क्रमस्तथापि तादृशतृप्तिविषये ज्ञानप्राधान्यख्यापनार्थ व्युत्क्रमेणोक्तिः। शमक्रिययो निसाध्ये सहकारिस्वेनैवाऽपेक्षणाज्ज्ञानं विना तयोरप्यसाध्यत्वाचेति बोध्यम् ॥ १ ॥ - ननु विषयैरपि तृप्तिरिति त एव किं नोपादेयतयोपदिश्यन्त इति शिष्यशङ्कामनुमाय समाधत्ते
स्वगुणैरेव तृप्तिश्चेदा कालमविनश्वरी ।। ज्ञानिनो विषयः किं ते यैर्भवेतप्तिरित्वरी ॥ २॥
स्वगुणैरेवेति । चेद्-यदि, ज्ञानिनः-सम्यग्ज्ञानवतः, स्वगुणैः-स्वस्याऽऽत्मनो गुणैः शमज्ञानक्रियादिभिः स्वभावभूतैः परि. णामैः, एवकारेण विषयव्यवच्छेदः । आकालम्-आङभिविधौ, कालमभिव्याप्येत्यर्थः । अनन्तं कालं यावदिति यावत् । तत्र हेतुगर्भ विशेषणमाह-अविनश्वरी-न विनश्यतीत्येवंशीला, अवि. नाशिनीत्यर्थः । शाश्वताऽसण्डरूपेति यावत् । यद्धि न विनाशि