________________
१००
भद्रङ्करोदयाख्यव्याख्याविभूषिते तदाकालं भवति, अन्यथा तदविनाश्येव न स्यादिति भावः । तादृशतृप्तेनिरुपाधिकतया शुद्धात्मस्वभावभूततया च नित्यत्वमिति ध्येयम् । तृप्तिः-इच्छानिवृत्तिजन्यं सुखादि, स्यादिति शेषः । तहींति चेच्छब्दबलादाक्षिप्यते। यैः-यत्प्रकारविषयैः, इत्वरी-एत्यप. गच्छतीत्येवंशील', विनाशिनीत्यर्थः । विषय जतृप्तेहि विषयवियोगेऽभावादितिभावः । तृप्तिः-उक्तप्रकारसुखादि, स्यादिति शेषः । तैः-तादृशैरित्वरतृप्तिजनकैः, विषयः-शब्दस्पर्शादिरूपैर्विषयशब्दवाच्यत्वेन प्रसिद्धैलौकिकोपभोगसाधनैः, किम् ?-काक्वा न किमपि प्रयोजनमित्यर्थः । सर्वोत्कृष्टं यत्स्वेनैव साध्यम् , तत्राऽधमस्य तस्य लाभार्थं परमुखापेक्षणं न ज्ञानिजनाऽनुरूपमपि तु तदबुधजन. कर्म । यदुक्तम्-" अक्के चेन्मधु विन्देत किमर्थं पर्वतं ब्रजेदि"ति, "सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिरि"ति चेति भावः । स्वपुरुपार्थेनैवोत्कृष्टफललाभः, परप्रार्थनया तु कृच्छ्रालब्धमप्यधममेव भवति । यदुक्तम्-" सर्वं परवशं दुःखं सर्वमात्मवशं सुखमि "ति गूढाकूतम् । विषया विनश्वरतृप्तिपदा इति ज्ञानिनो हेया एव, ज्ञानादयश्च स्वगुणा अविनश्वरतृप्तिपदा इति ज्ञानिनस्त एवोपादेयाः, तथैव ज्ञानित्वनिर्वाहात् । विषयजतृप्त्यर्थं विषयाऽऽसेवनं ह्यबुधजनकति स्वपस्योरुपादेयत्वहेयत्वयोरेष विवेक इति हृदयम् ॥ २ ॥
शिष्यं सम्यग्बोधयितुं तृप्त्योर्विशेषतस्तारतम्यमाह
या शान्तैकरसास्वादाद् भवेत्तृप्तिरतीन्द्रिया । ... सा न जिह्वेन्द्रियद्वारा षड्रसाऽऽस्वादनादपि ॥ ३ ॥