________________
ज्ञानसारे तृप्त्यऽष्टकम्
येति । शान्तैकरसाऽऽस्वादात्-शान्तः शमस्थायिभावकसुखात्मकाऽऽत्मपरिणामविशेषः, यत्र शम एव निरन्तरमलौकिकाऽऽनन्दाऽनुविद्धमनुभूयते तादृश आत्मपरिणाम इत्यर्थः । स एवैकोऽद्वितीयो रसाऽन्तराऽसम्मिन्नतयाऽसहायोऽलौकिकः सर्वस्सानां तत्र लयात्सर्वप्रधानञ्च, रस्यते खाद्यतेऽनुभूयत इति रसोऽनुभववि. शेषोऽनुभवमात्रसाक्षिकः, तस्याऽऽस्वादादा समन्तादात्मस्वभावतया स्वादादनुभवाद्धेतोः, ताशरसास्वाद जन्येत्यर्थः । या-यत्पकारा, अतीन्द्रिया-इन्द्रियाऽग्राह्याऽलौकिकी शुद्धात्मस्वभावतयाऽऽत्मज्ञमात्रसंवेद्याऽनुभवमात्रसाक्षिणी, तृप्तिः-उक्तप्रकारसुखादिरूपा, भवेत-जायते । सा-तादृशी तृप्तिः, जिह्वेन्द्रियद्वारा-जिह्वेन्द्रियरूपेण करणेन कृत्वा, पइरसास्वादनात-पण्णां मधुरादिभेदैः षट्सङ्ख्यकानां रसानां वृत्तौ तद्वदुपलक्षणतया रसवतां विषयाणामास्वादनादुपभोगात् , न-नैव । अपिनैकस्य द्वयोर्वा रसयोरास्वादनादनास्वादनाच्च नेति किमु वक्तव्यमिति सूच्यते । इन्द्रियद्वारा हि लौकिक्येव तृप्तिनत्वतीन्द्रिया। अन्यथा द्वयोः साम्यमेवाऽऽपद्येत । एवञ्चेन्द्रियद्वारा सम्भवन्त्यपि तृप्तिलौकिक्येव, शमज्ञानादिभिस्त्व. तीन्द्रिया तृप्तिरितीन्द्रियजशमजतृप्त्योर्महदन्तरं लौकिकाऽलौकिकयोरिवेति भावः । अत्र शमजतृप्तेरन्याशतृप्त्यपेक्षयाऽतिशयो दर्शित इति व्यतिरेकाऽलङ्कारः, स चाऽतीन्द्रियेत्युक्त्या सहेतुकः । एतेन शमजतृप्त्यर्थमेव यतनीयमिति सूच्यते ॥ ३ ॥
ननु तृप्तिश्चेद्भवतु सा विषयजन्यापि । आनं रसवञ्चेत्, तत्कस्य वृक्षस्येत्यचिन्तनीयम् । फलेन हि प्रयोजममिति शिष्य