________________
१०२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
व्यामोहाऽपोहायाऽऽह--
संसारे स्वप्नवन्मिथ्या वृप्तिः स्यादाभिमानि की । तथ्या तु भ्रान्तिशून्यस्य साऽऽत्मवीय विपाककृत् ॥४॥
संसार इति । संसार-संसाररूपेण निमित्तेन कृत्वा जायमाना, निमित्तसप्तम्यत्र बोध्या। उपलक्षणत्वात्सांसारिकविषयसम्पर्कजन्ये. त्यर्थः । तृप्तिः-सुखादिरूपा तृप्तिः, आभिमानिकी-अनेन मे तृप्तिरिदं मम सुख मित्येवमाद्यभिमानेन तथाविधेनाऽऽरोपात्मकेन सङ्कल्पेन निवृत्ता, स्याद्-भवेत्। अत एव, सा तृप्तिः, स्वप्नवत् - स्वप्न इव, मिथ्या-अवास्तवी । यथाहि मोदकभक्षणादिकस्व. प्नो न तृप्तये, स स्वप्नो हि मिथ्यैव, वस्तुतो मोदकभक्षणाद्य. भावात् । तस्य तथाविधमनःसङ्कल्पप्रभवत्वात् । तथाऽभिमानजन्या तृप्तिरपि तथाविधमनःसङ्कल्पकल्पितेति सा मिथ्यैव, वस्तुत इच्छानिवृत्त्यादेरभावात् । कथमन्यथा पुनस्तथेच्छा स्यादिति भावः । ननु तर्हि का तथ्येत्युच्यतामित्यत आह-तथ्येति । तुर्विशेषे भेदे च। तदाह -भ्रान्तिशून्यस्य-प्रान्ति मिथ्यामतिः, "भ्रान्तिमिथ्या. मति भ्रम" इत्यमरः । तया शून्यस्य रहितस्य जनस्य, विषयास्तृप्तिजनका इत्येवं मिथ्याज्ञानविरहवतो विषया विषमपरिणामा इत्येवंसम्यग्ज्ञानवत इत्यर्थः । आत्मवीर्यविपाककृत्-आत्मनो यद्वीय गुणविशेषाविर्भावाऽनुकूलं सामर्थ्य तस्य विपाकं परिपाकं पुष्टिं करोतीति सा तादृशी । आत्मनो गुणविशेषलाभाऽनुकूलशक्ति. विशेषाऽनुपाहिकेत्यर्थः । सा-तृप्तिः, तथ्या-वास्तवी, सैव हि तृप्तिर्ययाऽऽत्मवीर्य पुष्यति, अन्यादृशी तु नेहशीति सा मिथ्यैव,