________________
ज्ञानसारें तृप्त्यऽष्टकम्
१०३
बन्धादिप्रयोजकत्वादात्मशक्त्यपचयनिमित्तत्वात् । साऽपि तृप्तिश्वेदतृप्तिः का नाम स्यात् । तस्मात्स्वाभाविकी ज्ञानादिसाध्यैव तृप्ति - र्याssस्मवीर्यं पुष्णाति । आत्मवीर्यपोष एवं तृप्तिलक्षणमित्यतो विषयजतृप्तिः सर्वथैवाऽनुपादेया, तस्या वस्तुतस्तृप्ति भावाभावादिति हृदयम् ।। ४ ।।
ननु तृप्तिराभिमानिकी भवतु स्वाभाविकी वा, साऽऽत्मनश्चेदुपादेयैव । अन्यथा तृप्तेरनुपादेयत्वे तृप्ते रेवोपादेयता पारिशेष्यात्समापतेदिति शिष्यतर्क सम्भाव्य तद्विघटयन्नाह -
।
पुद्गलैः पुद्गलास्तृप्तिं यान्त्यात्मा पुनरात्मना । परतृप्तिसमारोपो ज्ञानिनस्तन्न युज्यते ॥ ५ ॥
पुद्गलैरिति । पुद्गलाः- स्वनामख्याता देहेन्द्रियादिरूपा द्रव्यविशेषाः, अचेतनानि मूर्त्तानि द्रव्याणि पुद्गला इति शास्त्रविदः । यदुक्तम् - " रूपिणः पुद्गला " इति, " शब्दस्पर्श र गन्धवर्णवन्तः पुद्गला " इति च । ते तादृशाः, पुद्गलैः- सजातीयै रसादिमद्भिद्रव्यैः, आहारादिनेति बोध्यम् । पुनः- तथा, आत्मा - जीवः, आत्मना - गुणगुणिनोर मेदोपचारादात्मस्वभावभूतेन क्रियादिना, तृप्तिम् - तृष्णोपरमजं सुखम्, कार्ये कारणोपचारात्तृप्तिजन्यमवयवोपचयादिरूपं गुणवृद्ध्यादिरूपं च पोषं च यान्तिप्राप्नुवन्ति । व्यक्ति भेदापेक्षया बहुवचनं बोध्यम् । भवति हि ते च स चेति तानीति । सजातीयैः सजातीयस्य तृप्ति र्न तु विजातीयैर्विजातीयस्य, विरोधादयोग्यत्वाद् । एवञ्च पुद्गलतृप्तेरात्मीयत्वेन
शमज्ञान