SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते ग्रहोऽभिमानेनैवेत्यत एव तन्मिध्येति भावः । ननु भवत्वात्मनि पुद्गलैराभिमानिकी तृप्तिः, यथाकथञ्चित्तृप्तरप्युपादेयत्वादिति चेद् , अज्ञानां तावदेतदेवं न तु ज्ञानिन इत्याह-तत्-तस्मात्पुद्गलानां पुद्गलैरात्मन आत्मना तृप्तेर्हेतोः, ज्ञानिनः-सम्यग्ज्ञानवतः, उपलक्षणत्वाज्ज्ञानादिना स्वाभाविकतृप्तिलाभभाग्यशालिन इत्यर्थः । परतृप्तिसमारोप:-परेषामात्मभिन्नानां पुद्गलानां या तृप्तिस्तस्या आत्मनि समारोपोऽभिमानेनाऽऽत्मधर्मत्वाऽऽपादनम् , पुद्गलैरात्मनस्तृप्तत्वाऽनुभव इति यावत् । न-नैव, युज्यते-युक्तम् । अन्यथा को नामाऽज्ञज्ञानिनोविशेषः स्यात् ।। ज्ञानी ह्यभ्रान्त इति तत्र भ्रमो में युज्यते । अन्यथा ज्ञानमनर्थकमेव । ज्ञानादिजन्यतृप्तिसत्त्वे च तादृशतृप्तेर्निष्पयोजनत्वाच्च । एवञ्च पोद्गलिकतृप्तिपरित्याग एव ज्ञानवत्वनिर्वाहो नाऽन्यथेति तादृशतृप्तिहेयैव ज्ञानिनो न तु जातुचिदुपादेयेति हृदयम् ॥ ५ ॥ - ननु किमिति ज्ञानादिमत एव ताहशतृप्तिर्न पुनः साधारणजनानामपीति शिष्यशङ्कां समाधित्सुराह मधुराज्यमहाशाकाऽग्राह्ये बाह्ये च गोरसात् । । परब्रह्मणि तृप्तिर्या जनास्तां जानतेऽपि न ॥ ६ ॥ मधुराज्येति । मधुराज्यमहाशाकाऽग्राह्ये-मधु प्रियस्वान्मधुतुल्यं मधुवदिन्द्रियतृप्तिसाधनत्वादभीष्टं च यदाज्यं राजयोग्य. सुखसाधनं स्त्रक्चन्दनाऽङ्गनादिकं तस्मिम् विषये महती बलवत्याशा प्राप्तीच्छा येषां ते तादृशास्तैरग्राह्येऽप्राप्येऽगम्ये च, पौद्गलिकसुख
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy