________________
ज्ञानसारे तृप्त्यऽष्टकम्
मेव बहुमन्यमानानामनात्मज्ञानामलभ्य इत्यर्थः । गोरसाद्-गौर्वाणी धाराप्रवृत्तत्वाद्रसो द्रवद्रव्यपदार्थ इव, “ अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौमते "त्यमरः । तत्सकाशाद्, बाह्ये-बहिर्भूते । अवाच्ये इति सारार्थः । अनिर्वचनीय. इतियावत् । वागगोचर इति परमार्थः । चः-समुच्चये । तथा-मधुरं मिष्टान्नं मोदकादि, आज्यं घृतं, महाशाकं शाकविशेषः, अतिप्रियतया महदिव यच्छाकं व्यञ्जनमिति वा, तैरग्राह्यमननुमेयम् , तस्मिन् । मधु. रादितोऽपि तृप्तिः परब्रह्मतोऽपीति मधुरादिसादृश्येन तस्य ग्रहो न सम्भवति, मधुरादिजन्यंब्रह्मजन्यतृप्त्योरतिविसदृशत्वादिति भावः । ननु तर्हि गोरसो लोके तृप्तिजनकत्वेन सर्वमुख्य इति तत्सादृश्यादेव तद्राह्यमिति चेन, तदाह-गोरमात्-गो र्गोसम्बन्धी यो रसो दुग्धादिस्ततोऽपि, बाह्ये-वहिर्भूते, विलक्षणे इत्यर्थः । तृप्तिरूपकार्यवैलण्यादिति भावः । किञ्च यतो गोरसाबाह्य मतो मधुराद्यग्राह्यमित्यपि तात्पर्यम् । " भोजने व्यञ्जनोपेते को रसो गोरसोज्झिते " इत्यादिना गोरससहितस्यैव मघुरादेविशिष्टतृप्तिपदस्वाऽवगमाद् यद्गोरससादृश्येनाऽग्राह्यं तस्य मधुरादिसादृश्यादिना कथं ग्राह्यत्वं भवत्विति भावः । एवञ्च तृप्तिजनकपुद्गलादिविलक्षणे चागतीते विषयव्यासक्तमनसामगम्ये इति समुदायार्थः । परब्रह्मणिपरे शुद्धसच्चिदानन्दमयत्वात्सर्वोत्तमे ब्रह्मण्यात्मनि, या-यादृशी, वृप्तिः-इच्छानिवृत्तिसुखं गुणोत्कर्षश्च, ताम्-तादृशीं तृप्तिम् , जना:-अनात्मज्ञा विषयेष्वेव बहुमानिनः साधारणा जनाः, जानतेऽपि न-जानन्त्यपि न, प्राप्तिकथा तु दरे इत्यपिना सूच्यते।