SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ भद्रङ्करोदयाख्यव्याख्याविभूषिते ज्ञानिन एवात्मतत्त्वप्रकाशात्तजन्यतृप्तिमनुभवन्ति, तस्मात्त एव तां तृप्ति जानन्ति । अत एव तदर्थ प्रयतन्ते । ततस्तादृशतृप्ति जिज्ञासुभिरादौ ज्ञानाद्येवाऽऽराधनीयम् । अन्यथा तादृशतृप्तेर्ज्ञानमपि न स्यादिति कुतस्तल्लाभः । तस्मादज्ञानिनां तदज्ञेयमप्राप्यं चेति तात्पर्यम् ॥ ६ ॥ ___नन्वेवं तीज्ञानां पुद्गलतृप्तिप्रवृत्तिनिरपाया, अन्यथा सर्वथाऽतृप्तिरेव स्यादिति तत्त्यागोपदेशो न समीचीन इति शिष्याऽ. श्रद्धामुद्धर्तुकामः पुद्गलानां दुष्परिणामहेतुत्वं ज्ञानस्य शुभपरिणामजनकत्वं च शिष्यप्रबोधायाऽऽह विषयोर्मिविषोद्गारः स्यादवप्तस्य पुद्गलैः । ज्ञानतृप्तस्य तु ध्यानसुधोद्गारपरम्परा ॥ ७ ॥ विषयोमर्मीति । पुद्गलैः-स्रक्चन्दनाऽङ्गनादिरूपैविषयैः पुद्गलात्मकैः कृत्वा, अतृप्तस्य-तृप्त्यभिमानतोऽप्येकान्ततृप्त्यभावादजात. तोषस्य जनस्य । यदुक्तम्-" न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाऽभिवर्धते ” इति । विषयोमिविषोद्गार:-विषयैः कृत्वा य ऊर्मिविषयेषु व्यासङ्गान्मनःक्षोभ उच्छङ्खलाऽऽसक्तिपरम्परा च, स एव विषोद्गारो भवपीडापरम्पराऽनुवन्धित्वात्सम्यग्ज्ञानविरहप्रयोजकत्वाच्च विषतुल्य उद्गारो ढेकारः, स्यात्-भवेत् । विषयतृष्णावतां विषयेष्वेवाऽऽसक्तिर्दुष्परिणामा जायते, नत्वात्मोत्कर्षसाधने शुभक्रियादाविति भावः । तुर्विशेषे, तदाह-ज्ञानतृप्तस्य-ज्ञानेन सम्यग्ज्ञानेन कृत्वा तृप्तस्य
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy